SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७४ . अलङ्कारसूत्रं ... [परिसहधा"भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥" "कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । ... काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥" अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरब्यबच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थ चेति नियमामावः। अलौकिकत्वाभिप्रायेणैव क्वचित् प्रश्नपूर्वकं ग्रहणम् । "विलयन्ति श्रुतिवमै यस्यां लीलावतीनां नयनोत्पलानि । बिभर्ति यस्यामपि वक्रिमाण मेको महाकालजटार्धचन्द्रः॥” . तथा 'चित्रकर्मसु वर्णसङ्करो यतिषु दण्डग्रहणानि' इत्यादा वैशिष्टयातिशयलिङ्गगङ्गासमीपापेक्षया निकृष्टानि पुण्यदेशान्तरादीनि । भक्तिर्भव इत्यादि । इयमप्रश्नपूर्विका शाब्दवर्जनीया । कौटिल्येत्यादि । इयमप्रश्नपूर्विकैवार्थवर्जनीया मनश्चात्रार्थ वर्जनीयम् । अत्र च कचादिगतस्य कौटिल्यस्य मनोगतस्य च भेदेऽप्यभेदाध्यवसायादेकत्वम् । ननु व्यवच्छेद्ये शब्देनानिर्दिष्टे उपात्तस्य स्वरूपकथनमात्रपरता प्रतीयेत, न त्वितरव्यवच्छेदः । अत आह-अत्र चेति । तद्धर्मयोगित्वेन लोकप्रसिद्धेषु वस्तुषु सत्स्वप्यप्रसिद्धवस्तूपादानं प्रसिद्धस्य वस्तुनस्तद्धर्मयोगित्वव्युदासे पर्यवस्यतीति व्यवच्छेद्यं वस्तु शब्देनावश्यं निर्देष्टव्यमिति न नियम इत्यर्थः । अलौकिकेति । रत्नोनां भूषणत्वेन सकलजगप्रसिद्धस्वेऽपि किं भूषणमिति प्रष्टुरलौकिकं भूषणं किमित्यभिप्रायः । तद्वशाच कचित् परिसंख्याविशेषे प्रश्नपूर्वकत्वम् । अथवा यदि व्यवच्छेद्यमर्थसामादवसीयते, तदा गतार्थत्वाच्छन्देनानुपादयमिति शाब्दत्वं विरुध्यते, १. 'यते न' ख. ग. पाठः. २. 'स्तत्तद्ध', ३. 'श्य' ख. पाठः. ४. 'कतेति', ५. 'नादीनां', ६. 'द्वेऽपि' क. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy