________________
निरूपणम् ]
सभ्याख्यालङ्कारसर्वस्वोपेतम् ।
राजपथे क्रमवर्तिन्यः । वदने चैकस्मिन्नाश्रये मुग्धत्वादिवर्ग: पत्नीत्वादिवर्गश्च वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः ॥
१७५
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः ॥ ६१ ॥
विनिमयोऽत्र किञ्चित् त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य हीनगुणस्य परिग्रहैणम् । एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधिकस्योत्कृष्टगुणस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभाससम्भवात् पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तियथा—
"उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत । हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया || " अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा - मभिसारिकाणां चाधेयानां राजपथाधारत्वमन्तरेणैकोपाध्यवच्छेदाभावादसंहतत्वम् 1 वर्गत्वादेवेति । वर्गत्वं चानुरागविरागप्रयुक्तत्वात् ॥
समेत्यादि । विनिमयः परिवृत्तिरिति सामान्यलक्षणम् । समेत्यादिना भेदनिर्देशः । संख्याप्रयुक्तं साम्यादि नेह विवक्षितम्, अपितु गुणप्रयुक्तमिति दर्शयितुं समाधिकन्यूनशब्दानां तुल्यगुणेत्यादिना व्याख्यानम् । क्रमप्रतिभाससम्भवादिति । एतच्च विनिमयाभावादित्यस्य व्याख्यानावसरे दर्शितम् । उरो दरवेत्यादि । अत्र यद्यप्युरोदानेनोत्साहो लक्ष्यते । स चोत्साहो यशोधिगम उपायः । तथाप्यभिधेयपक्षेोपादनापेक्षया परिवृत्तिर्द्रष्टव्या । उरोयशसोश्च जयश्रीसाधकत्वैतत्साधकत्वाभ्यां (?) तुल्यगुणत्वम् ।
१. 'यो यत्र', २. 'स्योपादा', ३. 'हः । एक. ख. पाठः ४. 'त्वसाध'
ग. पाठः.