SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६८ (पर्याय अलङ्कारसूत्र संबन्धे हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते। अर्थानुगमानुसरणेन त्ववयवानां क्रमसम्बन्धावगतिरित्यार्थं यथासंख्यम् ॥ ____एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पेंर्यायः ॥ ६०॥ क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत् तिष्ठति, स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्रागुक्तेन लक्षणेन विशेषालङ्कारोऽत्रोक्तः । तत् किमर्थमिदमुच्यते इत्याशङ्कयोक्तं-क्रमेणेति । इह च क्रमप्रतिपादनाद् अर्थात् तत्र योगपद्यप्रतीतिः । तेनास्य ततो विविक्तविषयत्वम् । तथा एकस्मिन्नाधारेऽनेकमधेियं यत् तिष्ठति, स कज्जलादीनां त्रयाणां सुपर्णादिभिरेकः क्रमसम्बन्धः, जलनिध्यादिभिद्वितीयः, हरिप्रभृतिभिस्तृतीय इति त्रिगु(ण)त्वम् । श्रुत्या शब्दवृत्तेन । संमुदायनिष्ठ इति । कज्जलहिमकनकरुक्त्वलक्षणस्य धर्मसमुदायस्य हरिहरचतुराननरूपेण धर्मिसमुदायेन सम्बन्धोऽव्यवहितः प्रतीयते । अ नुगमेति । समुदायसम्बन्धस्य समुदायिसम्बन्धमन्तरेणाघटनात् कज्जलरुक्त्वादीनां समे धर्माणां मिथो विरुद्धेन सर्वेषु हरिप्रभृतिषु धर्मिष्वसम्भवाच्चैकैकस्यैकेकोन सम्बन्धे कर्तव्ये संख्याकमानतिक्रमेण प्रथमस्य. प्रथमेनेत्यादिः सम्बन्धः प्रतीयत इत्यार्थत्वम् ॥ एकमित्यादि । एकस्य क्रमवाननेकसम्बन्धः पर्यायस्य सामान्यलक्षणम् । यथासंख्यावन्तर पर्यायस्य लक्षणे क्रमप्रस्तावादिति हेतुनिर्देशः । विशेषालङ्कार इति द्वितीयो भेदो निर्दिश्यते । विशेष क्रमस्य को निवारक इत्याशङ्कयाह-इंदं चेति । अस्य पर्यायस्य । ततः विशेषात् । एतदर्थमेव द्वितीयविशेषोदाहरणस्य 'प्रासादे से'त्यादेाख्याने युगपदवस्थान १. 'सारेण त्व',.२. 'तू स' क. ख. पाठः. ३. 'न सङ्घटनस' ख. पाठ:.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy