SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्रं कार्यकारणक्रम एवात्र चारुत्वहेतुः ॥ १५८ यथापूर्वं परस्य विशेषणतया स्थापनेऽपोहने [ एकावली. वैकावली ॥ ५४ ॥ यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति, स एकावल्यलङ्कारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा । स्थापनेन यथा"गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गन्यः । रूपं समुन्मीलितसद्विलासनस्त्रं विलासाः कुसुमायुधस्य ॥” अत्र वराङ्गना गृहाणां विशेषणं स्थापनीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा -- “न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥” अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन निबद्धम् । एवं पङ्कजादीनामलीनषट्पदत्वादि ज्ञेयम् ॥ जयस्य विनयादीनशेषान् प्रति कारणत्वं विवक्षितम् । तच्च तथा निर्दिष्टं न चारुतामावहतीति क्रमस्य स्वीकारः ॥ सूत्रे यथापूर्वमित्यत्र वीप्साया दर्शितत्वात् परस्येत्यत्रापि सा द्रष्टव्येत्याह – परं परमिति । स्थापनेन निवर्तनेन वेति । विधिखेन निषेधमुखेन वेत्यर्थः ॥ १. 'ना', २. 'ए' क. ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy