SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५४ अलङ्कारसूत्रं विशेषविशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा"दिवमप्युपयातानामाकल्पमनल्पगुणगों येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते चन्द्याः॥" “प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा ___ पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य । हहो चेतःप्रमितिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतादः ॥" “निमेषमपि यद्येक क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो ! किं न सम्पादयिष्यसि ॥" अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरनन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधास्त्वात् । एकस्या एव योषितः प्रासादादौ युगपदवस्थानं, चित्तविषये पदकरणे प्रस्तुतेऽपि भावि लोकोत्तरवस्तुसम्पादनं क्रमेण ज्ञेयम् । आनुरूप्येति । आधेयस्य सत आधारमन्तरेणावस्थानात् , परिमितस्यांनेकदेशव्यापित्वात् , कार्यान्तरप्रवृत्तेन कार्यान्तरस्यापि करणादानुरूप्यस्य परिहारः । कवीनामाधाराणामिति । यद्यप्याकाशाधारा गिरस्तथापि ताः प्रति कवीनां वैषयिकाधारत्वमस्त्येवेत्याह - अनम्यत्रभाव इति । यथा गगने विहगश्वरतीत्यत्र विहगचरणस्यानन्यत्रभावाद् गगनं वैषयिकमधिकरणं, तथा कविभ्योऽन्यत्राभावाद् गिरोऽपि तद्विषयत्वेन तदा. धारा इत्युच्यन्ते । भावीत्यादि । लट्प्रयोगान्निर्वाणप्राप्तिलक्षणेलोकोत्तरवस्तुसम्पादनं भावि ॥ १. 'ल्पं गु', २. 'णाश्रया ये', ३. 'रितरा', ४. 'भावः ॥', ५. 'म्भावयि', ६. 'ने' क. ख. पाठः. ७. 'द', ८. 'प' क. पाठः. ९. 'ण', १०. 'रस' ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy