SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] यथा वा "उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । प्राणान् प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्व तद् विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥” अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः ॥ - सव्याख्यालङ्कार सर्वस्वोपेतम् । - आश्रयाश्रयिणोरनानुरूप्यमधिकम् ॥ ४८ ॥ विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद् वा आश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद् १५१ दीनि कान्तप्रयत्नविषयत्वेनोपनिबद्धानि । उन्नत्यै इत्यादि । पूर्वत्र वैप -- रीत्यमुन्नेयम्, अत्र तु विपरीतमेव कुरुत इति शब्दोपात्तम् । तदेवाह - अत्र विपरीतेति । कचिद् विपरीतफलनिष्पत्त्यर्थं यत्न आरोपितो भवति । यथा सन्नद्धे त्वयि सम्प्रहारविधये संवर्तवैश्वानर ज्वालाचण्डिमदर्प भन्जनकलादक्षप्रतापोष्मणि । आरोहन्त्यवरोदुमेव तुरगान् हातुं च गृह्णन्त्यसी-. नागच्छन्त्यपयातुमाहवमहीं सङ्ग्रामधीर ! द्विषः ॥ अत्र तुरगारोहणादीनि तुरगावस्थानादिफलानि विपरीतावरोहणादि फलत्वेनोपनिबद्धानि । तत्र च यत्नाभावेऽपि तत्फलदर्शनाद् यत्नः शत्रुष्वारोपितः । क्वचिच्छ्लेषावष्टम्भेनापि दृश्यते । प्रतिभटगणः पुरस्ते तिष्ठति सरुषः पुरः स्थितिं हातुम् । अधिकबलेन यदूद्वह! विग्रहमुक्त्यै त्वया विगृह्णाति ॥ आश्रयाश्रयिणोरन्यूनानतिरिक्तत्वमानुरूप्यम् । तदभावोऽनानुरूप्यम् । तत्र प्रथमे भेदे आश्रयस्यातिरिक्तत्वमा श्रयिणो न्यूनत्वं, द्वितीये त्वन्यथा ।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy