SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्रं "अरण्यानी केयं धृतकनकसूत्रः क्व स मृगः क मुक्ताहारोऽयं क च स पतगः केयमबला । व तत् कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति ॥ " अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः, कलेबरात्यन्तापहारलक्षणानर्थोत्पत्तिः, अत्यन्ताननुरूपाणां चारण्यान्यादीनां परस्परसङ्घटनं क्रमेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमभ्यूह्यम् ॥ १४.८ [विषम तद्विपर्ययः समम् ॥ ४६ ॥ ३ विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं, तथापि तच्छब्देन सम्भवादन्त्यो भेदः परामृश्यते । पूर्वकभेदद्वयविपर्ययस्यानलङ्कारत्वात् । अन्त्यभेदे विपर्ययस्तु 1 व्याजस्तुतीति । निन्दामुखेन गङ्गायाः स्तुतिप्रतीतेः । शुद्धोदाहरणमिति । अलङ्कारान्तरासङ्कीर्णम् । यथा - wdwy करमात्रमनिच्छवः प्रदातुं कृतवन्तः सह ये त्वया विरोधम् । इमे यदुनाथ ! पार्थिवास्ते निखिलां प्रादिषत स्वराज्यलक्ष्मीम् ॥ अत्र विरोधक्रियया न परमभिमतस्य कराप्रदानस्यानवाप्तिः, यावदनभिमतस्य सकलराज्यप्रदानस्यावाप्तिरपि ॥ सूत्रे तद्विपर्यय इति तच्छब्देन भेदत्रितयविशिष्टं विषमं यद्यपि परामर्शनीयं, तथापि विरूपसङ्घटनालक्षणान्त्य भेदविशिष्टमेव परामृश्यत इ त्याह – तथापीति । सम्भवाद् अलङ्कारत्वसम्भवात् । पूर्वकभेदद्वयविपर्ययस्य सरूपकार्यार्थोत्पत्तिलक्षणस्य । अनलङ्कारत्वादिति । स्वतः १. 'द्धवलव', २. 'मूल्यम् ।' 'क. ख. पाठः ३. 'ते । न पू' ग. पाठः ४. 'यमपि तद्विप', ५. 'स्याल' ख. पाठः. ६. 'द' क. ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy