SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अलक्कारसूत्रं विभावना___एवं विरोधेमुक्त्वा विरोधमूलान्यलङ्कारान्तराण्युच्यन्ते। तत्रापि कार्यकारणभावमूलत्वेन विभावनां तावदाह कारणाभावे कार्यस्योत्पत्तिविभावना ॥ ४१ ॥ इह कारणान्वयव्यतिरेकानुविधानात् कार्यस्य कारणमन्तरेणासम्भवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदा तु कयाचिद् भङ्गया तथाभाव उपनिबध्यते, तदा विभावनाख्योऽलङ्कारः । विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिविशिष्टकारणाभावोपनिबडा । अप्रसिद्धं तु कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चेहोपक्रान्तत्वाद् बलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, नंतु तेन तत्र कारणाभावः । इत्यन्योन्यबाधकत्वानुप्राणिताद् विरोधाविरुद्धयोभिन्नविषयत्वम् । यथा विरूपकार्योत्पत्तिलक्षणे विषमालकारे । इह तु नैसर्गिकस्यापि विरोधस्य विषयैक्य एव स्वरूपप्रतिलम्भः । विषयभेदे त्वनुदय एव ॥ विरोधमूलानीति । विरोधाभासमूलानीत्यर्थः । अनेन पूर्वमुक्तं विरोधगर्भत्वमेषां दर्शयति । तत्रापीति । तेष्वलङ्करणेष्वपि । सूत्रे कारणाभाव इत्यत्र कारणमात्रस्याभावो न विवक्षितः, किन्तु विशिष्टस्य कारणस्येति दर्शयितुमाह-इहेति । अन्यथा कारणमन्तरेण सम्भवे । विशिष्टतयेति । वैशिष्टयं चेतरकार्यसाधारणकारणाप्रस्तुतत्वम् । ननु यद्यत्र समाधिमत्त्वादामुखावभासी विरोधाभासोऽस्ति, तत् किमर्थं विरोधालङ्कारभेदत्वेनानुक्त्वा पृथगेषा लक्षिता । अत आह-कारणाभावेन चेति । उपकान्तत्वाद् बलवतेति । असञ्जातविरोध्यवस्थायां लब्धस्वरूपत्वाद् बलवत्त्वम् । नतु तेनेति । बाध्यमानत्वेन प्रतीयत इत्यनुपज्यते । अन्योन्यबाधकत्वेति । यथा जडीकरणतापकरणयोरन्यतरस्य १. 'वमुक्त्वा वि', २. 'धं वि', ३. 'लङ्करणान्युच्य', ४. 'स्वे पि', ५. 'णान्तरान्व', ६. 'न का' क. ख, पाठः. ७. 'रसा' ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy