SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ अलङ्कारसूत्रं [आक्षेप न निषेधाभासस्य । महोदधेरम्भःकुम्भपरिच्छेदशक्तिनिदर्शनेन हयग्रीवगुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वथेष्टानिष्टस्य निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् । इत्थमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह ___ अनिष्टविध्याभासश्च ॥ ३९ ॥ यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिष्टस्यानिष्टत्वादेव विधानं नोपपद्यते । तत् क्रियमाणं प्रस्खलद्रूपत्वाद् विध्याभासे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी निषेधागूरणामानस्तात्पर्यचमत्कारविषयत्वादनाभासरूप इति नात्राक्षेपध्वनिभ्रमः कार्य इत्यर्थः । सर्वथेति । वाच्यो वा भवतु गम्यो वेत्यर्थः ॥ समानन्यायत्वादिति । अविषयनिष्ठत्वेनाभासरूपत्वादितराक्षेपकत्वं समानन्यायता । अनिष्टविध्याभासश्चेत्यत्र चकारेणाक्षेप इत्यस्यानुकर्षः । सङ्गत्यर्थमुपक्षिप्तं समानन्यायत्वमेव दर्शयति - यथेत्यादिना । प्रस्खलद्रूपत्वादिति । अनिष्टविषयत्वेन बाधितस्वरूपत्वात् । उपकरणीभूत इति । अनभिमतविषयत्वादनुपपद्यमानेन विधिना स्वोपपादकतयानुपपत्तिनिरासायाक्षिप्तत्वाद् विधिं प्रत्युपकरणः शेषः सम्पन्न इति केचिद् व्याचक्षते । अन्ये तु निषेधस्यैव तात्पर्यगोचरत्वाद् विधेविपर्ययादनुपपद्यमा(ने ? नत्वे)न मत्वर्थीयान्तादुपकरणशब्दाच्च्चिप्रत्यय इति व्याचक्षाणाः स्वाक्षेपकतयोपकरणभूतेन विधिनोपकरणवान् भूतो निषेध इत्याहुः । अनिष्टविशेषपर्यवसायीति । यद् विधातुमनिष्टमपि विहितं,' तत् १. 'स्याप्यनि' क. ख. पाठः. २. 'च्यो भ' क. ग. पाठः. ३. 'पन्नः शे' ख. ग. पाठः, ४. 'पत' ख. पाठा,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy