SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्रं [व्याजस्तुतिकृत्वा । स्तुतिनिन्दारूपस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा"हे हेलाजितबोधिसत्त्व! वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । · तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोढहने करोषि कृपया साहायकं यन्मरोः ॥" अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः । "इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि । अंद्याप्युवींवलयतिलक ! श्यामलिम्नानुलिप्ता न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥” अत्र धवलताहेतुयशोविषयानवक्लुप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात् कतिपयपदार्थवर्ज समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते । स्तुतिनिन्दारूपस्येति । विपरीतलक्षणयेति । हे हेलाजितेत्यादिभिः परमकारुणिकत्वप्रतिपादकैः पदैर्वाच्यविपरीतनृशंसत्वादि लक्ष्यते । अत्र धवलवेत्यादि । धवलताहेतुना यशसा विषयाणां धवलीकर्तव्यानामनवक्लप्तिरव्याप्तिः, तत्प्रतिपादनमुखेन । अव्याप्तिश्चेन्दुलक्ष्मादीनां श्यामलिग्नानुलिप्तत्वेनावगताँदधवलीकरणात् प्रतीयते । विशेषप्रतिषेध इत्यादिना निन्दायाः स्तुतिपर्यवसायित्वं दर्शयति । कतिपयपदार्थवर्जमिति । एतच्छलोकनिर्दिष्टेन्दुलक्ष्मादिवर्जम् । पूर्वत्रोदाहरणे वैरस्यदिनुपभोग्यत्वेन परानुपकारित्वस्य प्रत्यक्षतः सिद्धेः परहिताधाने गृहीतव्रत इत्यादिस्तुतेर्बाधः । उत्तरत्र सर्वपदार्थधवलीकारगोचरेण प्रत्यक्षेण धवलितं किमित्यादिना १. 'राजन्नद्याप्युदय', २. 'शोन' क. खं. पाठः, ३. 'तत्वाद', ४. 'ण' ख. ग. पाठः. ५. 'स्यानु' क. पाटा.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy