SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ निक्र्पणम् ] सब्याख्यालङ्कार सर्वस्वोपेतम् । एतानि साधम्र्योदाहरणानि । वैधर्म्येण यथा - 1 “धन्याः खलु वने वाताः कल्हार स्पर्शशीतलाः । राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः || ” अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमेधन्येति वैधम्र्म्येण प्रस्तु एतानि साधम्र्योदाहरणानीत्यस्मात् पूर्वं ग्रन्थकारदर्शितान्युदाहरणानि भ्रष्टत्वान्न दृश्यन्ते । अतो ग्रन्थान्तरदर्शितनयेन तानि दर्शयामः । सा च सारूप्यनिमित्ता त्रिधा श्लेषवती समासोक्तिमती तुल्यसंविधानवती चेति । तत्र श्लेषवती यथा - सत्यानुरक्तो नरकस्य जेता यदूद्वह विक्रमनिर्जितेन्द्रः । आविष्कृतस्वर्गतरुर्धरित्र्यामंशो हरेर्वाग्विषयः कथं स्यात् ॥ नात्र समासोक्तिः । विशेष्यस्यापि यदूद्वह इति साम्येन निर्दिष्टत्वात् । नापि श्लेषालङ्कारः, अर्थद्वयस्याप्यवाच्यत्वात् । नापि शब्दशक्तिमूलो ध्वनिः, वाच्यस्याप्रस्तुतत्वात् । नचात्र वर्णनीयत्वेन प्रस्तुत एव राजा वाच्योऽस्त्विति युक्तं वक्तुं, स्वर्गतर्वाविष्करणादीनां मुख्यया वृत्त्यासम्भवात् | आक्षिप्यमाणस्य तु गुणवृत्त्या तद्वर्णनमविरुद्धम् । समासोक्तिमती यथा सेवितं द्विजगणेन विस्तृतच्छायमाश्रितफल प्रदायिनम् । पादपं कमपि कूपकक्षितौ रूढमाश्रितवतां कुतः श्रमः ॥ ११७ - अत्र द्विजगणसेवितत्वादिविशेषणसाम्यात् पादपमित्यस्य विशेष्यस्य साम्याभावाच्च समासोक्तिव्यपदेशमात्रं नतु मुख्या समासोक्तिः, वाच्यस्याप्रस्तुतत्वात् । तुल्यसंविधानवती यथा ― दक्षिणसमुद्रपारे केचिन्मृदिताः स्थितेन केसरिणा । अपरे दूरं गमिता (इभा) स्तथान्ये वनान्तरं गमिताः ॥ 2. अत्र शब्दानामप्रस्तुतैकार्थनिष्ठत्वेऽपि संविधानतुल्यत्वबलेन वर्णनीयेन राज्ञा केषाञ्चिदरीणां वधः अन्येषां दूरमपसारणम् अपरेषां च स्वराज्याद् भ्रंशयित्वा द्वीपान्तरप्रापणं च कृतमिति प्रतीयते । वैधम्र्येणेति । रामस्पर्श 'मिति' क. पाठ:
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy