________________
११. अलङ्कारसूत्रं
[श्लेषइति हरिश्चन्द्रचरिते । अत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया औशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसम्पादितोपद्रववशात् प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति प्रस्थानं सूचितम् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते। सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सूचनीयार्थनैरपेक्ष्येण सादृश्यसम्भवमात्रेणैव विश्रामणीयम् । अतः प्रकृतेन सूचनीयस्य सम्बन्धाच्छन्दशक्तिमूलो वस्तुध्वनिरयम् । इह च--- "आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे
कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः। बद्धासक्तिनितम्बे पतति चरणयोर्यः स तादृक् प्रियो मे बाले! लज्जा निरस्ता नहि नहि सरले! चोलकः किं
[त्रपाकृत् ॥” इत्यलङ्कारांन्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम्। सद्यः कौशिकेत्यादौ चन्द्रवृत्तान्ते अभिर्धाया नियन्त्रणस्य हेतुः प्रकरणमित्याह-प्रभातवर्णनेत्यादि । कौशिकशब्द इति । कौशिकदिग्विजृम्भणमित्यनेन वासवदिशः प्राच्या अरुणोदयेनापोढतमस्कत्वाद् विकास उच्यते, उलूकमर्यादाया जृम्भणाभावो वा । वल्कलसुताभ्यामित्यादिना सूच्याभिमतस्याप्यर्थस्य वाच्यत्वेन ध्वनित्वापवादशङ्का न कार्येत्याह । अत्र वल्कलसुतग्रहणं राष्ट्रस्याप्युपलक्षणम् । अत इत्यादि । अत्राप्युदाहरणे ध्वनिरवस्थित इति श्लेषस्य निरवकाशत्वं स्थितमेवेत्यर्थः । अथावकाशान्तरप्रदर्शनेन श्लेषदौर्बल्यवादिनः प्रत्यवस्थानमाशङ्कते - इह चेत्या
१. 'था कौ', २. 'श्र', ३. 'रवि' क. ख. पाठः. ४. 'धे' ख. पाठः.