SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कार सर्वस्वोपेतम् । १०७ तु रूपके रूपक हेतुकस्य श्लेषस्य तृतीयकक्ष्यायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यैव गम्यत्वात् श्लेषबाधिका समासोक्तिः । इह तु — " त्रयीमयोऽपि प्रथितो जगत्सु यारुणीं प्रत्यगमद् विवखान् । मन्येऽस्तशैलात् पतितोऽत एव विवेश शुद्ध्यै बडवाग्निमध्यम् ॥” अत्र श्लोके विवस्वतो वस्तुवृत्तै सम्भव्यधः प्रदेश संयोगलक्षणं यत् पतितत्वं, यश्च बडवग्निमध्यप्रवेशः, ते द्वे अपि त्रयीमयसम्बन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाभिप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलयाभेदेनाध्यवसीयेते । सौऽयमेकक्रियायोगः । तद्धेतुका च मन्येऽत एवं शुद्धयै इत्युप्राप्ते कचिदपवादमाह श्लेषगर्भे त्वित्यादि । यथा 'विद्वन्मानस - हंसेत्यादौ त्वमेव हंस इति प्रथमं रूपकस्य प्रतीतिः । पश्चात् तद्धेतुका मानसशब्दे श्लेषस्य । ततो मानसमेव मानसमिति रूपकस्य । अतो रूपकमेव विश्रान्तिधामत्वात् प्रबलम् । श्लिष्टविशेषणेत्यादि । उपोढरागेणेत्यादौ । विशेष्यस्यैवेति । अप्रस्तुतस्येति शेषः । समासोक्त - विशेष्यस्य गम्यत्व एव संरम्भात् तदवगतिनिमित्तत्वादङ्गभूतो विशेषणविषये श्लेष इति समासोक्तेरेव प्राधान्यम् । इह त्वित्यादिना श्लेषस्य कस्यचिदलङ्कारान्तरस्याङ्गभावं कस्यचिद् बाधकत्वं च दर्शयति । तत्र विवस्वतो वस्तुवृत्तेत्यादिना श्लेषस्योत्प्रेक्षां प्रत्यङ्गत्वं दर्शयति । सोऽयमित्यादि । अतिशयोक्त्या भेदेनाध्यवसितः पतितत्वाभिप्रवेशलक्षणः १. 'स्य ग', २. 'इति श्लो', ३. 'त्ति', ४. 'वाम', ५. 'सिते', ६. 'यो', ७. 'व विवेश शु' क. ख. पाठः. ८. 'तिस्तद्धे' ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy