SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निरूपणम् सव्याख्यानकारसर्वस्वोपेतम् । १.५ पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालङ्कार इति चेद् , न । आश्रयाश्रयिभावेनालङ्कार्यालङ्कारभावस्य लोकवद् व्यवस्थानात् । एष च नाप्राप्तेष्वलङ्कारान्तरेष्वारभ्यमाणस्तद्वाधकत्वात् तत्प्रतिभोत्पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेने त्यादिविविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह सङ्करो दुर्बलत्वाद्वा बाध्यत्वमित्यन्ये । तत्र पूर्वेषामभिप्रायोऽयम्-इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत् प्रतिष्ठितोऽयमलङ्कारः। तत्राचं प्रकारद्वयं तुल्ययोगितौया विषयः । तृतीये तु प्रकारे संश्लेषकान्तरनिरपेक्षं श्लिष्यति, एवं नालमित्यादावेकपदात्मके शब्दान्तर उच्चार्यमाणेऽनुच्चारितस्यापि पदद्वयात्मकस्य शब्दान्तरस्य सादृश्यवशेन प्रतीतेः श्लिष्टत्वम् । मतान्तरेऽर्थश्लेषविषये रक्तच्छदत्वमित्यादावपि शब्दश्लेषसमर्थनीयालङ्कार्यालङ्कारभावप्रयोजकत्वेनोक्तावन्वयव्यतिरेको निराकृत्याश्रयाश्रयिभावस्यैव प्रयोजकत्वमङ्गीकुर्वन्नर्थश्लेषत्वमेव स्थापयति-पूर्वत्रेत्यादिना । लोकवदिति । यथा हस्तालङ्कारः कटकादिः पैदालङ्कारश्च नूपुरादिरुच्यते तदाश्रयत्वाद् , न त्वन्वयव्यतिरेकाभ्याम् । तथा सति केवले कटकादौ हस्तालङ्कारादिव्यपदेशो न स्यात् , स्याच हस्तादिस्थे नूपुरादौ । एवं रक्तच्छदत्वमित्यादस्त्रिविधश्लेषोदाहरणत्वमुपपाद्य मतान्तरेण प्राप्तस्योपमोदाहरणत्वस्य निरसनेन श्लेषोदाहरणत्वमेव स्थापयितुं वैमत्यं तावद् दर्शयति- एष चेत्यादि । नाप्राप्तेषु प्राप्तेष्ववेत्यर्थः । तद्बाधकत्वादिति । 'येन नाप्राप्ते यस्यारम्भः स तस्य बाधको भवतीति न्यायात् । दुर्बलत्वादिति । अनवकाशत्वाभावादलङ्कारान्तराणामङ्गभूतसाधादिप्रतिपादन उपक्षीणत्वाच्च दौर्बल्यम् । श्लेषस्य सावकाशत्वं निराकर्तुमाह - तत्र पूर्वेषामित्यादि । तन्निष्ठत्वेन प्राकरणिकाप्राकरणिकनिष्ठत्वेन -- १. 'यः । नि', २. 'त्वाद् बा', ३. 'तावि' के. ख. पाठः. ४. 'न' स. पाठः ५. 'पा', ६. 'राणा' क. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy