SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [समासोक्ति .. अलङ्कारसूत्रं विशिष्टयोः प्रतीतेः । साधारण्येन यथा "तन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी। : विकासमेति सुभग! भवदर्शनमात्रतः ॥" अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । अत्र च लतैकगामिविकासाख्यधर्मसमारोपः का. रणम् । अन्यथा विशेषणसाम्यमात्रेण नियतस्य लताव्यवहारस्याप्रतीतेः । विकासः प्रकृते तूपचरितो ज्ञेयः । एवं कार्यसमारोपेऽपि ज्ञेयम् । इयं चै पूर्वापेक्षयास्फुटा । औपम्यगर्भत्वेन यथा "दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥" अत्र दन्तप्रभाः पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते इत्यत आह --- अपरित्यक्तेति । रूपके हि मुखादीनां स्वरूपपरित्यागेन कमलादिरूपमेव प्राधान्येन प्रतीयते । तन्वीत्यादि । पुष्पहासिनीत्यत्र यद्यपि पुष्पवद्धसितशीला पुष्पहासवतीति चार्थद्वयप्रतीतिः, तथापि पुष्पशब्दस्य हसतेश्वार्थद्वयासम्भवात् साधारण्यम् । प्रकृते तूपचरित इति । शोभाजनकत्वसाम्याल्लोलाक्ष्या हर्षो विकास उच्यते । एवं कार्येत्यादि । कार्यसमारोपसहकारिणि विशेषणसाधारण्य इत्यर्थः । इयं च पूर्वापेक्षयास्फुटेति । तत्र विशेषणानामर्थद्वयवाचकतयाप्रकतसाधारणानां बहूनां धर्माणां निर्देशादप्रकृतस्य स्फुटा प्रतीतिः, इह पुनरन्यथेत्यस्फुटत्वम् । अन्ये तु पूर्वापेक्षया तन्वीत्यादिविशेषणसाधारण्यमात्रस्य निमित्तत्वेनापेक्षया अस्फुटेति धर्मसमारोपाद्यनङ्गीकारेऽनिष्टं दर्शितमित्याहुः । दन्तप्रभाः पुष्पाणीवेति । व्याघ्रादेराकृतिगणत्वात् समासः । सुवेषत्ववशादित्यनेनोपमापरिग्रहे साधकमाह । सुवेषत्वं प्रति दन्तप्रभा १. 'सस्तु प्र', २. 'त उप' ग. पाठः. ३. 'च समासोक्तिः पू' मूलपाठः. ४. 'खे य' क. ख. पाठः. ५. 'भावा' क. ग. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy