SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अलकारसूत्र [समासोक्ति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः॥३१॥ इह प्रस्तुताप्रस्तुतानां क्वचिद् वाच्यत्वं क्वचिद् गंम्यत्वमिति द्वैतम् ! वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैतम् । एतद् द्विभेदमपि श्लेषालङ्कारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः । अप्रस्तुतनिष्ठं तु समासोक्तेर्गोचरः । तत्रं च निमित्तं विशेषणसाम्यम् । विशेष्यस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्यवाद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोपो न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वाद् रूपक अलङ्कारद्वयमिति । समासोक्तिपरिकररूपम् । विशेषणविच्छित्तिश्च क्वचित् साम्यवशात् क्वचित् साभिप्रायत्यवशात् । विशेषणसाम्यादित्यादि । अप्रस्तुतँस्य गम्यत्व इत्यनेन सारूप्यनिमित्तमप्रस्तुतप्रशंसाभेदं व्यवच्छिनत्ति । इहेत्यादिना श्लेषाप्रस्तुतप्रशंसासमासोक्तीनां विषयविभागं दर्शयति । इह विशेषणसाम्यविषये । एतद् विभेदमिति । प्रकारद्वयविशिष्टं वाच्यत्वम् । तत्र चेति । अप्रस्तुतस्य गम्यत्वे । श्लेषप्राप्तरिति । एतत् समासोक्तिव्यतिरिक्तप्राप्तिमात्रोपलक्षणम् । प्रस्तुताप्रस्तुतनिष्ठत्वे विशेषणविशेष्योभय साम्ये शब्दशक्तिमूलध्वनिताप्राप्तेः । एतच्च वक्ष्यति 'विशेषस्यापि साम्ये त्वर्थप्रकरणादी'त्यादिना । अथवोपादानकृतं साम्यमिह विवक्षितम् । प्रस्तुतवदप्रस्तुतस्यापि पृथगुपादान इत्यर्थः । प्रस्तुतावच्छेदकत्वेन प्रस्तुतविशेषकत्वेन । अवच्छेदकत्वाचेत्यादि । तथा उपोढरागेणेत्यादौ मुखग्रहणादिलक्षणं नायकव्यवहारमात्रं समारोप्यते, न तु नायकरूपम् । अवच्छादितत्वेन उपरक्तत्वेन । प्रकृतस्य १. 'व्यङ्गयत्व', २., ३. 'ध', ४. 'थम् ।', ५. 'त्र नि', ६. 'शात् प्र' क. ख. पाठः ७. तेत्य' क., 'तप्रशंसेय' ग. पाठः. ८. 'षत्वे', ९. 'ति।' ख, पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy