SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्र [सहोक्ति"अस्तं भास्वान् प्रयातः सह रिपुभिरयं संहियन्तां बलानि" अत्रास्तगमनं श्लिष्टम् , अस्तमित्यस्योभयार्थत्वात् । तदन्यथारूपा यथा "कुमुददलैः सह सम्प्रति विघटन्ते चक्रवाकमिथुनानि" अत्र विघटनं सम्बन्धिभेदाद् भिन्नं, न तु श्लिष्टम् । एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः । यथा"अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥" इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथाअस्तगमनमिति । अस्तशब्दस्य शैलविशेषनाशयोर्वाचकत्वात् । तदन्यथारूपा अश्लेषभित्तिका (अ?)भेदाध्यवसायमूला । कुमुददलैरित्यादि । अत्र श्लेषाभावमभेदाध्यवसायार्थ भेदं च दर्शयति-विघटनं सम्बन्धीत्यादिना । एतद्विशेषेति । प्रथमनिर्दिष्टमतिशयोक्तेः प्रकारद्वयं प्रत्यवमृश्यते । एतानीत्यादि । अपराधसन्तापादीनां वर्धनादौ कर्तृत्वात् । एवं कर्तृकर्मणोः साहित्यमुदाहृतम् । करणसाहित्ये यथा -- अमोधैरिषुभिः सार्धमुपायैः फलशालिभिः । सत्रामधीरः सर्वेषां भिनत्ति हृदयं द्विषाम् ॥ सम्प्रदानसाहित्ये यथा मदभरमन्थरसिन्धुरगमनाभिः सह सुपर्वतरुणीभिः । सङ्क्रामधीर ! भवतः पृतनाभ्यस्तिष्ठते द्विषां वर्गः ॥ अपादानसाहित्ये यथा अधिसमरमाततज्ये रीववर्मन् ! कार्मुके त्वयाकृष्टे । आलं द्विषामुरस्तस्तरुणीनां लोचनैः समं पतति ॥
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy