SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ काव्यमाला ।' यस्मिन्निति । यत्र वाक्ये विभक्तियोगो विविधो नानासमासयोगश्च जायते । केषु । पदभङ्गेषु सत्सु । विविक्तः स्फुटः स पदश्लेषः ॥ उदाहरणमिदम् सुरतरुतलालसगलन्नयनोदकलालसत्कुचारोहम् । समराजिदन्तरुचिरमिते नमदसौ शरीरमदः ॥ ६ ॥ नवरोमराजिराजितवलिवलयमनोहरतरसारं भाः । धवलयति रोहितानवमद्ध्यानमदाहितस्तनि ते ॥ ७॥ (युग्मम्) सुरेति । नवरोमेति । कश्चिच्चाटुकृत्प्रियामाह-हे समराजिदन्तरुचिरस्मिते अविषमदन्तपङ्क्तिकान्तहसिते, तवासौ भा एषा दीप्तिरद एतच्छरीरं वपुर्धवलयति शुक्लयति । कीदृशम् । सुरतरुतेषु निधुवनभणितेषु लालसो लम्पटो गलः कण्ठो यस्य तत्तथाभूतम् । तथा प्रियसंनिधानाद्यन्नयनोदकमानन्दलोचनवारि तस्य यो लालः प्रसरणं तेन सञ्शोभनः कुचारोहः स्तनोच्छ्रायो यत्र तत्तथाभूतम् । तथा नमत्स्तनाभोगभारान्नम्रम् । तथा नवा नूतना या रोमराजी रोमलेखा तया राजितं भूषितं यद्वलिवलयं वलयाकारं वलित्रयं तेन मनोहरतरं रम्यतरं तच्च तत्सारमुत्कृष्टं चेति समासः। रोहत्युत्तिष्ठतीति रोहि तानवं कृशत्वं यस्य तद्रोहितानवं यन्मध्यमुदरं तत्रानमन्तौ कठिनत्वादलम्बमानावाहि ताववस्थितौ स्तनौ यस्यास्तस्या आमन्त्रणं हे रोहितानवमध्यानमदाहितस्तनि । एष एकस्य वाक्यस्यार्थः ॥ अपरस्य तु यथा-कश्चित्खड्गप्रहरणो धानुष्कं स्पर्धिनमुद्दिश्य वयस्यानाह-यतोऽहमेवं विशिष्टस्तेन हेतुना मदसावस्मत्खड्ने न वरो न श्रेष्टः कोऽसौ शरीरमदः । शरा विद्यन्ते येषां ते शरिणो धानुष्कास्तानीरयति क्षिपत्यभिभवतीति शरीरस्तस्य मदः । जितधनुर्धरोऽहमिति कृत्वा यो दर्प इत्यर्थः । यतः कीदृशोऽहम् । सुरतरुतलेषु देववृक्षाधोभागेष्वलसा मन्दा ये गलन्नया भ्रश्यन्नीतयः। विषयासक्ता इत्यर्थः । तेषां नोदस्ततः पातनं तत्र या कला विज्ञानं तया लसञ्शोभमानः कौ पृथिव्यां चारो वल्गनं यस्य स तथाविधोऽहम् ।खड्गविद्यया वर्गस्थानपि पातयामीत्यर्थः । तथा समरं रणमासमन्ताज्जयन्त्यभिभवन्तीति समराजितो ये शूरास्तेषामप्यन्ते विनाशे रुचिरभिलाषो यस्य स एवंविधोऽस्मि भवामीति । अधुना वयस्यानामन्त्रयतेअमराजिरेषु देवाङ्गनेष्वजितमपराभूतं यद्दलिबलं बलिदानवसैन्यं तस्य यमनं बन्धनं तत्रोहस्तर्कश्चिन्ता तत्र रतो विष्णुस्तस्येव रसस्तात्पर्यमारम्भश्चानुष्ठानं येषां ते तथाभूता भवन्त आमन्यन्ते । कीदृशे मदसौ। धवा वृक्षविशेषास्तेषु लयो दुर्गधिया संश्रयस्तेन तिरोहितमन्तरितमनवं बहुदिवसभवं यन्मध्यानं मदीयचिन्तनम् । दुर्गस्था वयमतः स किं करिष्यतीति कृत्वा । तेन मच्चिन्तान्तर्धानेन मदो येषां ते च तेऽहिताश्च शत्रवश्व तेषु स्तनिते तद्दारणाच्छणच्छणायमाने । खङ्ग इत्यर्थः । अथवा धवाः पुरुषास्तेषां लयः खपौरुषकर्मकौशलम् । अनवम उत्कृष्टो ध्यानमदो नीतिशास्त्रचिन्तादर्पो येषां तेऽनवम
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy