________________
१०२
इति वा पाठ: । अत्र पूर्णचन्द्रमण्डलस्य सुवृत्तमुक्ताफलजालचित्रितत्वं विशेषणमेव संभावितमिति ॥
एवं वाक्योपमां षड्विधामभिधायेदानीं समासोपमामाहसामान्यपदेन समं यत्र समस्येत तूपमानपदम् ।
अन्तर्भूतेवार्था सात्र समासोपमा प्रथमा ॥ १७ ॥
काव्यमाला ।
सामान्येति । उपमानपदं चन्द्रकमलादिकं सामान्यपदेन सुन्दरशब्दादिना यत्र समस्येत सा समासोपमासु मध्ये प्रथमा । तुर्विशेषे । विशेषस्तु वाक्योपमातः समासकृत एव । यद्युपमा कथमिवादिपदं न श्रूयत इत्याह- अन्तर्भूत इवार्थ औपम्यं यस्याः सा तथोक्ता ॥
उदाहरणम् -
मुखमिन्दुसुन्दरमिदं बिसकिसलयकोमले भुजालतिके । जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् ॥ १८ ॥
मुखमिति । अत्रेन्दुरिव सुन्दरमित्यादि विग्रहः ॥
प्रकारान्तरमाह -
पदमिदमन्यपदार्थे समस्यतेऽथोपमेयवचनेन ।
यस्यां तु सा द्वितीया सर्वसमासेति संपूर्णा ॥ १९ ॥
पदमिति । इदं पूर्वोक्तं सामान्योपमानसमासपदमथानन्तरमुपमेयवचनेनान्यपदार्थे यत्र समस्यते सा सर्वपदसमासात्संपूर्णा समासोपमा द्वितीया ॥
उदाहरणम्-
शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भा गर्भाभिरामोरूः ॥ २० ॥
शरदिति । अत्र शरदिन्दुशब्दसुन्दर शब्दयोः पूर्ववत्समासं कृत्वा ततो मुखेनोपमेयेन सह नायिकायामन्यपदार्थे समासः ॥
भूयः प्रकारान्तरमाह
उपमानपदेन समं यत्र समस्येत चोपमेयपदम् ।
अन्यपदार्थे सोदितसामान्येवाभिधेयान्या ॥ २१ ॥
उपमानेति । उपमानपदेन सह यत्रोपमेयपदमन्यपदार्थेन सह समस्यते सान्या समासोपमा । चः पुनरर्थे भिन्नक्रमः । सा पुनः समासेनोक्तौ सामान्यमिवार्थश्च यस्यां सा तथोक्ता ॥