________________
कौस्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
वाचकत्वाद्यभावेऽपि निरूढा लक्षणा यथा । निरूढद्योतनाप्येवमपेरस्तु सतां मता ॥ २०६ ॥ तयैव कौशिकाः सर्वेऽप्यपेरर्था यथास्त्यलम् । वक्तव्याः पण्डितैस्तेन क्वोक्तापत्तिर्वदात्र ते ॥ २०७ ॥ गर्दासमुश्चयप्रश्नशङ्कासंभावनास्वपि । इति पञ्चामरे प्रोक्ता अपेरर्थास्तथैव च ॥ २०८ ॥ अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये ।
तथा युक्तपदार्थेषु कामचारक्रियासु च ॥ २०९ ॥ इति युक्तपदार्थश्च कामचारक्रियापि च । मेदिनीकृन्मतावर्थी पूर्वस्मादधिकावपेः ॥ २१० ॥ तस्याः शक्त्यादिमूलकत्वेन तदभावात्सापि नैवेत्याह- नापीत्यादिना । उपसंहरति - अत इत्यादिना । आदिना तत्प्रतिपाद्योऽलंकारः । एवं पूर्वपक्षं समाधातुं प्रतिजानीते – अत इत्यादिना ॥ २०५ ॥ निरुक्तरसगङ्गाधराशङ्कितशाब्दिकसिद्धान्तानुसारेण यदा सामान्यतः सर्वनिपातानामेव वाचकत्वाभावात्तदन्तःपातिनोऽपेस्तथात्वस्य कैमुत्यात्तन्मूलकलक्षकत्वाद्यभावाच्च यद्युदाहृतविरोधाभावेन तन्मूलकविरोधाभासाद्यसिद्धिस्तर्हि तदीयादेव सिद्धान्तग्रन्थात्तस्य सर्वस्याप्युदाहृतविरोधादेः सुकरैव सिद्धिरित्याशयेन तमेव सिद्धान्तग्रन्थमर्थतोऽनुवदन्समाधत्ते - वाचकत्वादीत्यादिना । प्रकृतस्यापि शब्दस्येति शेषः । निरूढेत्यादिना दृष्टान्तः । सा च द्वितीयरत्ने प्राक्प्रपञ्चितैवेति भावः । दान्तिके योजयति-निरूढेत्याद्युत्तरार्धेन । एवं निदर्शितनिरूढलक्षणावदित्यर्थः । अपेः निरूढद्योतनापि सतामालंकारिकादिविदुषां मता संमतास्त्विति योजना । तदुक्तं रसगङ्गाधर एवोदाहृततच्छङ्काग्रन्थोत्तरमिति चेन्नेति प्रतिज्ञाय निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वादिति ॥ २०६ ॥ ननु भवत्वेवं सामान्यतो निपातानां निरूढद्योतनापि वृत्तिः शक्तिसमकक्षैवाथापि प्रकृते किमागतमित्याशङ्कां फलितकथनेन समाधत्ते — तयैवेति । निरुक्तनिरूढद्योतनयैवेत्यर्थः । सर्वे संपूर्ण अपि कौशिकाः कोशप्रसिद्धाः । अपेर्निपातान्तःपातित्वेनापिशब्दस्येत्यर्थः । यथास्थलं यथायोग्यविषयमिति यावत् । क्रियाविशेषणमिदम् । पण्डितैर्वक्तव्या इत्यन्वयः । फलितमाह–तेनेत्यादिशेषेण । अत्र अपिशब्दार्थविषय इत्येतत् ॥ २०७ ॥ ननु कस्मिन्कोशे केपि शब्दार्था उक्ता इत्यपेक्षायां प्रथममतिमान्यत्वात्प्रसिद्धत्वाच नामलिङ्गानुशासने अमरसिंहकृते तद्वाक्येनैव तान्कथयति — गर्हेत्याद्यर्धेन । अपीति निपातः गर्हादिषु निरुक्तवृत्त्या वर्तत इति संबन्धः । अथ तत्संख्यां कथयंस्तत्तत्संबन्धित्वादिभ्रमं भञ्जयति — इतीत्यादिना । अत्र कोशान्तरमपि समुनेतुमाह - तथैवचेति ॥ २०८ ॥ तद्वाक्यमेव पठति — अपिरिति ॥ २०९ ॥ पूर्वस्मादत्र विशेषं कथयस्तन्नामापि प्रथयति — इतीति ।
-
४७९