SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ y4 साहित्यसारम् । [ पूर्वार्धे कर्तुः क्रियातः संप्राप्तुमभीष्टात्मनि कर्मणि । स्याद्वितीया मृगाक्षीव हरि भजति भक्तराट् ॥२२॥ स्वतन्त्रे कर्तरि तथा करणेऽत्यन्तसाधके । तृतीया खलु रामेण बाणेनाभिहतो मृगः ॥२३॥ नमः स्वस्तिस्वधास्वाहादानतादर्थ्ययोगतः। शिवाय नम इत्यादौ चतुर्थी भवति ध्रुवम् ॥ २४ ॥ दाहरणे संख्यायां संख्यामात्रेऽपि मता । पाणिन्याद्याचार्याणां संमतास्तीत्यर्थः । उपलक्षणमिदं संबोधनस्यापि । तस्माच्छक्यादय एव प्रथमाविभक्त्या इति सिद्धम् । तथाच सूत्रं 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' इति । विस्तरस्तु सिद्धान्तकौमुद्यादौ द्रष्टव्यः ॥२१॥ द्वितीयाविभक्त्यर्थं कथयति-कर्तु. रिति । कर्मणीत्यतः प्राक्तनेन कर्मवरूपम् । तत्र दृष्टान्तमाह-मृगाक्षीवेति । यथा कर्तुः अग्निहोत्रादिक्रियामात्रप्रधानस्य गृहस्थस्य क्रियातः ताम्बूलदानादिलौकिकव्यापारतः संप्राप्तुं सम्यग्यथाभिलषितं प्राप्तुं लब्धं अभीष्टात्मनि वाञ्छितखरूपे कर्मणि विलासव्यापारे 'पत्नी पाणिगृहीता च द्वितीया सह. धर्मिणी' इत्यमरोक्तेर्द्वितीया नाम पाणिगृहीता धर्मपत्न्येवेत्यर्थः । यद्वा प्रथमपत्न्यपेक्षया नवा द्वितीयैव मृगाक्षी हरिणनयना तरुणीत्वेन दक्षा भवतीत्यध्याहारस्तद्वदुक्तलक्षणे कर्मणि द्वितीया विभक्तिः स्यादिति संबन्धः । अत्रापि सूत्रे 'कर्तुरीप्सिततमं कर्म' इति, कर्मणि द्वितीया' इति च उदाहरति-हरिमिति ॥ २२ ॥ तृतीयार्थमाह–स्वतन्त्र इति । तथाच सूत्राणि 'स्वतन्त्रः कर्ता', 'साधकतमं करणं','कर्तृकरणयोस्तृतीया' इति च । उदाहरति—रामणेति। पक्षे कर्तरि पुरुषे खतन्त्रेऽपराधीने सति तथा तस्य करणे साधनेऽप्यत्यन्तसाधके अवश्यकार्यकारिणि च सति तृतीया खलु भुक्तिमुक्तिभ्यामन्या विपत्तिरूपा तदपेक्षया तृतीयैवावस्था भवतीत्यर्थः । तत्र निदर्शनं रामेणेति । सुवर्णमृगस्य लोकाप्रसिद्धत्वेन तदासत्त्यनौचित्येऽपि खातन्त्र्यादिना तत्संभवेन तज्जन्योक्ततृतीयावस्थादर्शनादतः शास्त्राचार्यपारतन्त्र्यमेव सर्वदा हितैषिभिः परिपालनीयं नतु क्षणमात्रमपि स्वातन्त्र्यायवलम्बनीयमित्याशयः ॥ २३ ॥ अथ चतुर्थीविभक्त्यर्थं कथयति-नम इति । एतेषां खाहान्तानामेव शब्दानां साक्षाद्योगेन, तथा दानस्य कर्मणा योगेन, तथा तादर्थ्यस्य योगेन च चतुर्थीविभक्तिः शिवाय नम इत्यादावुदाहरणे ध्रुवं भवतीत्यर्थः । आदिपदेन सर्वस्मै खस्ति, पितृभ्यः स्वधा, अग्नये स्वाहा, विप्राय गां ददाति, मुक्तये हरिं भजतीत्यादि । पक्षे नमः 'प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम्' इत्यादिश्रीमद्भागवतोक्तं नमनं, तथा खस्ति अहिंसया सकलजीवकल्याणं, स्वधा पितृयज्ञः, खाहा देवयज्ञः, दानं अन्नादेः प्रसिद्धमेव । तादर्थ्ययोगः ब्रह्मकप्राप्त्यर्थित्वेन मनोनिरोधः । एतैः साधनैः कृत्वा शिवाय नम इति मन्त्रोपासनपूर्वकमादिशब्दोक्ततत्त्वसाक्षात्कारे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy