________________
४०५
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
शुद्धा निश्चयगर्भा च निश्चयान्तेति सा विधा। चतुर्णा मंमटादीनामप्ययं मत ईदृशः॥ ११६ ॥ तडिद्धनाम्बुतोत्फुल्लमल्लीतापिच्छकाविमौ ।
इति संदिदिहे राधामाधवौ वीक्ष्य बालकैः ॥ ११७ ॥ मुखं चकोरौ किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला' इति पूर्वपूर्वापेक्षाधिकबलोत्तरोत्तरोत्प्रेक्षायामतिप्रसङ्गभङ्गार्थ सामर्थ्यकान्तम् । 'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् । परिणेष्यति वान वा युवायं निरपायं मिथिलाधिनाथपुत्रीम्' इति रसगङ्गाधरोदाहृतमिथिलास्थजनोकौ तचिन्ताव्यञ्जके संशयमात्रेऽतिव्याप्तिव्यावृत्तये साधर्म्यज्ञानेति । एवमपि सिंहवत्प्रान्तरं गच्छ गृह सेवख वा श्ववदिति तदुक्तोपमाविकल्पेऽनेकधर्मावगाहिसादृश्यमूलकत्वेनातिव्याप्तितादवस्थ्यनिरासार्थ दोषेति । तत्र दोषजन्यत्वाभावात् । मालारूपके तयुदासाय प्रातिकूल्यान्तं निरुक्तविशेषणप्राप्तानेककोटिकत्वस्पष्टीकरणार्थमेवावगाह्यन्तम् । स्थाणुर्वा पुरुषो वा राक्षसो वेति लोकप्रसिद्धसंदेहव्युदस्तये सुन्दरेति । इदं तथा रसायुपस्कारकत्वं चेति विशेषणद्वयं सर्वालंकारसाधारणमेवेत्येतेन चमत्कारकरत्वाख्येन तदप्यत्रोपलक्ष्यते । बुद्धिजनकेत्याद्यवशिष्टपदकृत्यं त्वन्यथेत्यादिना प्रागेवोक मिति संक्षेपः ॥ ११५ ॥ ननु भवत्वेवं ससंदेहालंकारलक्षण मथापि तदन्तर्गताया बुद्धेः किमैकरूप्यमेवोतानेकरूपत्वमित्याशङ्कयान्त्यपक्षाङ्गीकारेण समाधत्ते-शुद्धत्यर्धेन । केवलसंशयरूपेत्यर्थः । सा निरुक्तलक्षणकुक्षिनिक्षिप्तप्रेक्षेत्यर्थः । नन्वेवं तर्हि तादृशधीप्रदस्यास्य ससंदेहालंकारस्यापि त्रैविध्यं स्यादिति चेदित्याक्षेपमिष्टापत्तिमूलीभूतप्राचीनाचार्यसंमत्या समाधत्तेचतुर्णामित्युत्तरार्धेन । मंमटः काव्यप्रकाशकारः । आदिना प्रतापरुद्रीयसाहित्यदर्पणरसगङ्गाधरकाराः । ईदृशः प्रोक्तत्रैविध्यविशिष्टः अयं ससंदेहालंकारः मतः संमतोऽस्तीति संबन्धः ॥ ११६ ॥ तत्राद्यमुदाहरति-तडिद्धनाविति । इमौ पुरोवर्तिनौ । तडिदिति । विद्युन्मेघावेव । उत अथवा उदिति उत्फुल्ला परमविकसितौ मल्लीतापिच्छौ मालतीतमालावेव वा । इति एवंप्रकारेण बालकैः गोपकुमारैः राधामाधवौ 'वीक्ष्य वृन्दावनकुन्दादिनिकुञ्जादाववलोक्य संदिदिहे संशयोऽकारीत्यन्वयः । अत्रोत्फुल्लपदेन तयोः परमप्रहृष्टत्वं द्योत्यते । तथा पूर्वकोटिसमबलत्वमपि । अन्यथा भौमयोर्मल्लीतापिच्छयोर्दिव्याभ्यां तडिद्धनाभ्यां समबलत्वायोगान लक्षणसमन्वययोग्यलक्ष्योदाहरणं स्यात् । नचैतावतापि कथं समबलत्वम् । नहि तडित इव भावरत्वं घनस्येवातिदूरतः संतापहारकत्वं च फुल्लायामपि महयां फुल्लेऽपि च तमाले संभवति । तस्माद्विफल एवायमायास इति वाच्यम् । प्रकृते व्यज्यमानसंभोगशृङ्गारस्योद्दीपनविभावसामग्रीत्व एव समबलत्वस्य विवक्षितत्वात्तस्य चोक्तफुल्लत्वविशेषणमन्तरा दुःसंपादत्वाच्च । तथाचान्यूनान