________________
३९६
साहित्यसारम् ।
रूपकं तूपमेयत्वावच्छेदकपुरस्कृतेः । तत्रोपमानतादात्म्याध्यवसानं गिराऽत्मराट् ॥ ९६ ॥
[ उत्तरा
दुपमेयत्वेन वर्णने तस्य प्रसिद्धोपमेयस्य तादृशोपमानात्मना च वर्णने सार्वभौमस्य सामन्तत्वे ं सामन्तस्य च दैवात्सार्वभौमत्वे न्यूनस्याधिक्यार्थितयाऽधिके स्पर्धा तथाधिकस्य न्यूनस्पर्धाप्रयुक्तस्पर्धा च यद्वत्प्रसिद्वैव लोके तद्वत्प्रकृतेऽपि स्पर्धाध्वननं युक्तमेव । किंच 'किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात्' इत्युदाहरणे तु सुवर्णवर्णमिति पदस्यैव सन्निहितपूर्वत्वेन तच्छब्देन तदर्थस्यैव सुवर्णस्येव वर्णो यस्य तत्तथेति बहुव्रीहिबोध्याङ्गनाङ्गस्य बोध्यत्वाद्विरुद्धमतिकृत्त्वमित्यन्यदेतत् । एवं उपमानोपमे - ययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्षे परिहर्तुं द्वितीय प्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम् । उपमानस्य कैमर्थ्यं चतुर्थम् । सादृश्य विघटनं पञ्चमं चेति तत्संमतद्वितीयादिप्रतीपप्रभेदेष्वपि निरुक्तसामान्यलक्षणसमन्वयः प्रोक्तदिशैवानुसंधेयः सुधीभिः । एवंच तदीया प्रतीपसामान्यलक्षणाभावोक्तिस्तु किमभिप्रायेति नैव वयं जानीमः । एतेन एको विश्वसतामित्यादिना तदापादिते षष्ठेऽपि प्रतीपप्रभेदे निरुक्ततत्सामान्यलक्षणसमन्वयो व्याख्यातः । भेदाधिक्यापादनं तु चमत्कारविशेषाधिक्यजनकत्त्रादिष्टापत्त्यैव पराकरणीयम् । पञ्चसंख्याया दिङ्मात्रप्रदर्शनफलत्वात् । तथा हि साहित्यदर्पणकृता 'उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः । कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे' इति लक्षणमुक्त्वा अहमेव गुरुरित्याद्युदाहरता तस्यैकविधताया एवोपपादन मकारि । प्रतापरुद्रीये द्वैविध्यस्य, काव्यप्रकाशे चातुर्विध्यस्य, कुवलयानन्दे पञ्चविधत्वस्यापि प्रकृतेपि तथैवेति एवमपि प्रथमत्वादिक्रमोऽप्यनियत एव दृश्यते सर्वत्र । तस्मात्पूर्वाचार्याणां अलंकारेषु बालानामवगाहन एव तात्पर्यं नत्वन्यप्रतिक्षेप इति संक्षेपः ॥९५॥ एवं सादृश्यमूलकप्रतीपप्रपञ्चनस्मृतस्य रूपकस्य सामान्यं लक्षयति-रूपकं त्विति । तुशब्दो निरुक्तभेदप्रधानालंकारवैलक्षण्यार्थः । उपमेयत्वेति । उपमेयतावच्छेदकपुरस्कारेणेत्यर्थः । तत्रोपमेये । गिरा वर्ण्यप्रस्तावकवाचेत्यर्थः । उपमानेति । उपमानप्रतियोगिकतादात्म्यावधारणविषय इत्यन्वयः । भवतीत्यार्थिकम् । एवंच उपमेयतावच्छेदेकपुरस्कारेणोपमेये शब्दावधृतमुपमानतादात्म्यं रूपकमिति तल्लक्षणं फलितम् । तदुक्तं रसगङ्गाधरे – 'उपमेयतावच्छेदकप्रकारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकमिति भ्रान्तिमदपहुतिनिदर्शनातिशयोक्तिव्यावृत्तय तृतीयान्तम् । भ्रान्तिमति तज्जनकदोषेणैव निरुक्त पुरस्कृतिप्रतिरोधातू । अपहृतौ वक्रिच्छयैवोक्तावच्छेदकस्य निषिध्यमानत्वात् । निदर्शनातिरायत्तयोस्तु तस्य साध्यवसानलक्षणामूलकत्वाच न तत्रातिव्याप्तिः । इदं प्रियाननं चन्द्र इति प्रत्यक्षाहार्यनिर्णय विषय चन्द्रतादात्म्यव्यवच्छित्तये शब्देति । अवधृतमित्युक्त्या नूनं मुखं चन्द्र इत्याद्युत्प्रेक्षाख्यसंभावनाया व्यावृत्तिः । उपमेयोपमान
1