SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७८ साहित्यसारम् । आर्येव तद्धिते धर्मलुप्ता धर्माग्रहे भवेत् । अद्वैतब्रह्मकल्पेयं श्रीगुरोः करुणा मयि ॥ ४५ ॥ अथ वाचकलुप्ता तु षड्विधात्र समासगा । संस्मरामि प्रियापाङ्गं लोलेन्दीवरसुन्दरम् ॥ ४६ ॥ कर्मणिक्यजगता शान्तः संसारममृतीयति । आधारे क्यजूगताऽऽत्मशो वने हरिपुरीयति ॥ ४७ ॥ यद्यप्युपमानविशेषणानि ते तथापि शब्दशक्तिमहिना श्रुत्यैव तत्संबन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा । तेन तुल्यमित्यादौ प्रतीततुल्यतोपपत्तये साधर्म्य - स्यार्थत्वादार्थीति । यत्परा इत्यस्य यदनन्तरमुपात्ता इत्यर्थ इति तत्रैव चाग्रे । एवंवादियोगे साधारणधर्मसंबन्धरूपोपमा वाच्या । सादृश्यप्रतीतिः सार्थी सदृशादिपदयोगे सादृश्यप्रतीतिः शाब्दी । उपमा त्वार्थी । सादृश्यं तु साधारणधर्मसंबन्धप्रयोज्यम् । सदृशादिपदशक्यतावच्छेदकतया सिद्धं सदृशसंदर्शने संस्कारोद्बोधकत्वस्य सर्वसंमतत्वेन तत्कारणतावच्छेदकतया च सिद्धमतिरिक्तपदार्थः । न चाति - रिक्तपदार्थत्वे गौतमकणादोक्त पदार्थ संख्याविरोध इति वाच्यम् । प्रमेयपदार्थे गौतमोऽन्तर्भावादिति । एवं चेह प्रथम श्लोकोदाहरणे अरुणबिम्बाभेवेति समस्तेवशब्दश्रवणेनोपमा श्रौतीति द्वितीयश्लोकोदाहरणेपि क्षीरोदोर्भिसम इति समस्तसमपदश्रवणेन सा आर्थीत्युचितमेवेति संक्षेपः ॥ ४४ ॥ अथ तद्धिते समभिमतामाथमेव धर्मलुप्तां संलक्ष्योदाहरति-आर्थ्येवेत्यादि पूर्वोत्तरार्धाभ्याम् - - अद्वैतेति । इयं ज्ञानरूपा मयि श्रीगुरोः करुणा | अद्वैतेति । स्वप्रकाशात्मातिरिक्तवस्त्वभानस्य ब्रह्मतज्ज्ञानयोः साम्येऽपि ज्ञाने दृश्यत्वेन कल्पाख्यत - द्वितप्रत्ययोक्तेषन्यूनत्वमिति भावः ॥ ४५ ॥ एवं यथोद्देशक्रमप्राप्तां धर्मलुप्तोपमां चतुर्विधां निरूप्येदानीमवसरप्राप्तां षोढा वाचकलुप्तां निरूपयन्नादौ समासगां तां निरूप• यति - अथेति । धर्मलुप्मोक्त्यनन्तरमित्यर्थः । तामुदाहरति-संस्मरामीति । लोलेन्दीवरमिव सुन्दरस्तमिति विग्रहादुपमावाचकस्येवशब्दस्य सामासिक एव लोप इति लक्षणसंगतिः । लोलपदेन चपलवं ध्वन्यते ॥ ४६ ॥ एवं कर्मणि क्यजूगतां तामाह- कर्मणीत्यर्धेन । शान्तः 'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति गीतोताद्वैतात्मप्रमित्यौत्तरकालिकशरीरादिद्वैत विषयकाभासत्वाद्वैतास्मविषयक दृश्यबाधाधिष्ठानत्वोपलक्षितमुक्तिरूपतानुसंधानलक्षणनिरतिशयान्तःशान्तिमानित्यर्थः । संसारमाप्रारब्धं प्रतीयमानं प्रपञ्चमित्यर्थः । अमृतीयति । अमृतमिवाचरतीत्यर्थे अमृतशब्दात्क्यचूप्रत्ययोऽयम् । तेनोक्तसंसारं प्रति कैल्यमिवाचरतीति फलतीत्याकूतम् । तद्वदाधारे क्यजूगतामपि तामाह-आधारइत्युत्तरार्धेन । वने एकान्तवासार्थं सेवितेऽरण्येऽपीत्यर्थः । आत्मज्ञः हरीति । हरिपुरं वैकुण्ठं तद्वदाचरतीत्यर्थः । एतेन तस्य यावद्वैतविषयकमृगजलतुल्यमिथ्यात्वाध्यवसानेन नैसर्गिक फलीभूत वैराग्यशालित्वं सूच्यते ॥ ४७ ॥ ततः [ उत्तराध
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy