SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । श्रौती समासगा पूर्णा या समस्तेव बोधिता। त्रयी कटाक्षश्रेणीव गुर्वभिनखभाऽवतु ॥ ३६॥ आर्थी समासगा पूर्णा या समस्तार्थबोधिता। तमोऽपहरणात्साक्षात्सूर्यतुल्यः सदागमः ॥ ३७॥ श्रौती तद्धितगा पूर्णा तन्मुखं चारुचन्द्रवत् । आर्थी तु तादृशी शेया तहशौ मीनवञ्चले ॥ ३८॥ रित्यर्थः । आदिना यथेववाशब्दा यत्परा इति काव्यप्रकाशप्रसिद्धयथादेर्ग्रहः । उक्तिः कथनं तुल्यादिना । तुल्यादिपदोपादाने आर्थीति काव्यप्रकाशोक्तेस्तुल्यसमसदृशसंकाशनीकाशसंनिभसमानसधर्मसब्रह्मचारिप्रभृतिपदेनेत्यर्थः । अस्ति सा वाक्यगा आर्थी उपमावाचकस्येवादेः सादृश्यलक्षणस्यार्थस्य तत्तल्यत्वादिबोधान्यथानुपपत्त्या सिद्धत्वादार्थिकी भवतीत्यन्वयः । तथाच तुल्यादिपदबोधितेवाद्य. र्थकत्वं वाक्यगार्थपूर्णोपमात्वमिति तल्लक्षणसंक्षेपः । अथ तामुदाहरति-सदृशमिति । सुदृशः खमृगाक्ष्याः मुखं सौरभ्यान्मनोज्ञत्वात् । शरदिति शरत्कालीनकमलेनेत्यर्थः। सहार्थेऽयं तृतीया । सदृशं तुल्यमस्तीति संबन्धः । अत्रेवपदार्थः साधर्म्य सदृशपदेनैवार्थादवबोध्यत इति लक्षणसंगतिः ॥ ३५ ॥ अथ क्रम. प्राप्तां श्रौती समासगां पूर्णोपमां लक्षयति-श्रीतीति । समस्तेति । समस्तः समासं प्राप्तः एतादृशः यः इव इवशब्दः तेन बोधिता ज्ञापिता सा समासगा श्रौती पूर्णोपमा भवतीति योजना । एवंच समस्तेवशब्दबोधितसादृश्यत्वे सति श्रौतसमासमपूर्णोपमालंकारत्वमिति तल्लक्षणं फलितम् । तामुदाहरति-त्रयीति । अत्र अवनं संसारतमसः सकाशात्संत्राणमेव संप्रार्थ्यमानं साधारणधर्मः । अत्रैवेन समासात्समासगत्वम् । शिष्टं तु स्पष्टमेव ॥ ३६ ॥ इदानीमार्थी समासगा. मपि पूर्णी क्रमप्राप्तत्वाल्लक्षयति-आर्थीत्यर्धेन । समस्तेति । या समस्तार्थबोधिता समस्तानां समासं प्राप्तानां पदानां योऽर्थस्तेन बोधिता ज्ञापितेत्यर्थः । सेत्यार्थिकम् । आर्थी समासगा पूर्णा उपमा भवतीति योजना। एवं च समस्त. पदोपस्थितार्थबोधितपूर्णीपमात्वमेव तत्वमिति तल्लक्षणमावेदितं भवति । तामु. दाहरति-तमोपहरणादित्याद्यर्थेन । सदागमः सच्छास्त्रम् । अत्र सूर्येण तुल्यंः सम इति विग्रहेण बोध्यमानार्थस्य समासघटितपदजन्यत्वावच्छिन्नार्थबोधितत्वात्तत्वमिति तत्वम् ॥ ३७ ॥ अथ श्रौतीमार्थी च तद्धितगां तां क्रमा. त्पूर्वोत्तराभ्यां पादाभ्यां संक्षेपतः संलक्ष्योदाहरति-श्रौतीति । अत्र चन्द्र. वदिति समुदाहृतवतेस्तत्र तस्यैवेति सादृश्ये विधानादियं श्रौती । तथाच साह. श्यार्थकत्वेन विवक्षितवति प्रत्ययघटितत्वं श्रौततद्धितगपूर्णोपमात्वमिति तल्लक्षणं फलितम् । एवं मीनवदित्यस्य वतेस्तु तेन तुल्यमिति विधानात्सादृश्यवदर्थबोधकतयात्रार्थी । तेन सादृश्यवदर्थबोधकत्वेन विवक्षितवति प्रत्ययघटितत्वमेवार्थतद्धितगपूर्णोपमात्वमिति चैतल्लक्षणमपि पर्यवस्यति ॥ ३८ ॥ एवं षोढा पूर्णोपमा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy