SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । सा द्विधा पूर्णलुप्तत्वभिदाद्यार्थ्यादितस्तथा । षोढा वाक्ये समासे च तद्धिते च स्थितत्वतः ॥ २४ ॥ अन्त्योपमानलुप्ता च धर्मलुप्ता तथैव च । एवं वाचकलुप्ता धर्मोपमानकलुप्तका ॥ २५॥ तथा वाचकधर्माभ्यां लुप्ता वाचकवर्ण्यतः। . लुप्ता धर्मोपमाने वादित इत्यस्ति सप्तधा ॥ २६॥ भोगस्य निरुपमानन्दत्वमिति तत्वम् । उक्तमेवार्थ दृष्टान्तेनापि समर्थयतिशाब्देत्यायुत्तरार्धेन । यद्यस्माद्धेतोः शाब्दापरोक्षविद्यैव अधिकारिविशेषावच्छेदेन सुविचारितात् शाब्दपरब्रह्मोभयनिष्णातेनैव गुरुणा समुपदिष्टात्तत्त्वमस्यादिमहावाक्याख्यशब्दादेव संजाता शाब्दी सा चासावपरोक्षा असंभावनाद्यखिलप्रतिबन्धवैधुर्येणाहंब्रह्मास्मीति चरमवृत्तिकालिकसाक्षिप्रत्यक्षा सा चासौ विद्या अबाधितत्वात्प्रमा चेति तथेति यावत् । अवधारणेन तदितरयोगाद्यखिलसाधनव्युदासः । अद्वैतेति । अद्वैतब्रह्मात्मैक्यदात्री वृत्तिव्याह्या तद्विषयकाज्ञानमात्रनिवृत्ति. द्वारा वर्तत इत्यर्थः । एतेनोक्तविद्यया सह पूर्वोक्तखनायिकायामुपमानोपमेयभावध्वननादत्र व्यङ्गयोपमालंकारो ध्वनितो भवति । तथेहोत्तरार्धगतः शान्तः पूर्वार्धगतशृङ्गारस्यैवाङ्गमिति रसवदलकारोऽपि । तेनात्र गौणव्यङ्गयत्वमपि । शिष्टं तु स्पष्टमेव ॥ २३ ॥ एवं प्रसङ्गात्संगतां व्यङ्गयोपमामपि संलक्ष्य समुदाहृत्य रसवदाद्यलंकारमपि संसूच्येदानीमुपमायाः प्राचां संमतान्भेदान्विवक्षुः प्रथमं तद्वैविध्यं प्रतिजानीते-सा द्विधेति । तत्र हेतुमाह-पूर्णेत्यादिना । एवं च पूर्णोपमा लुप्तोपमा चेति सामान्यतो द्विप्रकारोपमा भवतीत्यर्थः । एतल्लक्षणादिकं त्वप्रेऽनुपदमेव स्फुटीभविष्यतीति भावः । अथ पूर्णोपमायाः पुनरार्थी शाब्दी चेति भेदाद्वैविध्यमभिधत्ते-आयेत्यादिना। आदिना शाब्दी तथा द्विप्रकारेत्यर्थः । पुनस्तस्या आर्थ्यादिरूपायाः पूर्णोपमायाः प्रत्येकं वाक्यसमासतद्धितगतत्वभेदात्रैविध्यात् षडिधत्वं विधत्ते षोढेत्याद्युत्तरार्धेन । आद्या प्रथमोद्दिष्टा पूर्णोपमा आर्थी शाब्दी चेति द्विप्रकारापि प्रत्येकं वाक्ये समासे तथा तद्धिते च स्थितत्वतः षोढा भवतीति संबन्धः ॥ २४ ॥ एवं प्रथमोद्दिष्टां पूर्णोपमां विभिद्य क्रमप्राप्तां लुप्तां तां भिनत्ति-अन्त्येत्यादि द्वाभ्यां सप्तधा । धर्मोपमानकेति। धर्मश्चोपमानं च धर्मोपमाने धर्मोपमाने एव धर्मोपमानके इति खार्थे कप्रत्ययः । धर्मोपमानके लुप्ते यस्याः सा धर्मोपमानकलुप्तकेति सामासिकः कप्रत्ययः। तथाच धर्मोपमानलुप्ते. सर्थः । शिष्टं तु स्पष्टमेव ॥ २५ ॥ तथेति । वाचकेत्यादि । वाचकधर्मनिमित्तकलोपवती वाचकधर्मलुप्तेति यावत् । वाचकवयेत्यादि । वाचकोपमेयप्रतियोगिकलोपवती वाचकोपमेयलुप्तेत्यर्थः । इदं लुप्तेति पदं मध्यमणिन्यायेनोभयत्रापि संबध्यते। धर्मोपमानेत्यादि । धर्मश्चोपमा चेवादिर्वाचकश्चेति तैस्तथा । धर्मोपमान
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy