________________
३६६ साहित्यसारम् ।
[उत्तरोध चित्रेऽपि चित्रमीमांसाकारैविध्यमीरितम् । शब्दार्थोभयचित्रत्वभेदात्प्राच्यैस्तु तद्वयम् ॥ २०॥ बाढं तद्दीक्षितैः सूक्ष्मदृग्गम्योभयसाम्यतः। उक्तं प्राच्यैस्तु शब्दादिभेदौ स्थूलहशोदितौ ॥ २१ ॥ यद्वाक्याज्ज्ञायते चारु सादृश्यं वर्ण्यमञ्जुनो।
तत्वमत्रोपमात्वं स्याब्रह्मेव शुचि विन्मनः ॥२२॥ तयोराद्ययोरत्रालंकाररत्ने गणनैव क्रियत इति योजना ॥ १९ ॥ नन्वेवमलंकारचातुर्विध्यमपि न नियतं दीक्षितोतरीयैव तत्र पञ्चम्या अपि विधायाः संभवादिति शङ्कते-चित्रेऽपीति । तद्यथा चित्रमीमांसायां तावदप्पय्यदीक्षितैः । त्रिविधं तावत्काव्यम् ध्वनिगुणीभूतव्यङ्गयचित्रभेदादिति पूर्व प्रतिज्ञाय तत्राद्ययोः संक्षेपेणोपपादनं विरच्याथ यदव्यङ्गयमपि चारु तच्चित्रमिति सामान्यतश्चित्रलक्षणं संक्षिप्योक्तं शब्दचित्रमर्थचित्रमुभयचित्रमपीति । ननु भवत्वेवं का हानिरित्याशङ्कय तां प्राचीनाचार्यविरोधरूपां सूचयितुं तन्मतं संक्षिपति-प्राच्यैस्त्विति । तुशब्दो वैलक्षण्यार्थः । तदुक्तं काव्यप्रकाशकारिकायाम्-'शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम्' इति ॥ २० ॥ अथोक्तशङ्कामङ्गीकृत्य स्थूलसूक्ष्मदृगाख्याधिकारिभेदेन प्राच्यादिमतद्वयप्रवृत्तेनैवात्र विरोधगन्धोऽपीति समाधत्ते-बाढमिति । तचित्रभेदत्रयम् । सूक्ष्मेति । प्रेक्षावन्मात्रावगम्यशब्दार्थोभयचित्रसमानत्वेनेत्यर्थः ॥ २१ ॥ एवं प्राक्प्रतिज्ञातार्थचित्रालंकारप्रदर्शनोपोद्घातप्रसक्ततत्सामान्यलक्षणादिसंप्रपंच्येदानीं 'उपमैका शैलूषी संप्राप्ता चि.
भूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः' इति चित्रमीमांसोकेस्तस्या अनेकालंकारेषु संक्रमानुभूतेश्च तामेव प्रथमं सामान्यतः संलक्ष्य संक्षिप्योदाहरति च क्रमात्रिपाद्यन्त्यपादाभ्याम् यद्वाक्यादिति । वयेति । वर्णयितुं योग्यं वर्ण्यमुपमेयं मुखादि ‘मनोज्ञं मञ्जु मञ्जलम् ' इत्यमरान्मन्जु रम्यमुपमानं चन्द्रादि वर्ण्य च मञ्ज च तयोरुपमेयोपमानयोरित्यर्थः । यदिति । याहशार्थप्रतिपादकाद्वाक्याचन्द्रवत्खप्रियाऽऽस्ये श्रीरित्यादिपदकदम्बानिमित्तादिति यावत् । चारु परमरमणीयमेव । नतु 'तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्' इत्यादिवदतथाभूतमित्यर्थः । अत्र यदि ‘सुचुम्ब्य पद्मं मकरन्दगन्ध्यलं शरद्विसिन्याः कलहंसराडिव' इति न्यासः क्रियते चेत्तदा चार्वेव सादृश्यं तद्भिन्ने तद्गतभूयोधर्मवत्त्वमेव । यथा चन्द्रभिन्ने मुखे तद्गतानन्दकत्वम् । ज्ञायते अवबुध्यते । अत्र अलंकारशास्त्रे नत्वन्यशास्त्रे । उप समीपे मा लक्ष्मीः प्रमा वा यस्याः सा तथेतिव्युत्पत्त्या हरिमूर्तेरद्वैतब्रह्मविद्योदयकालिकयोगीन्द्रव्यक्तेरपि तत्र तत्तत्प्रकरणानुसारेणोपमापदाभिधेयत्वसंभवात् । नापि लोके । उमेत्यादिवदुपमेति कस्याश्चिदभिधानस्यापि संभवाच । तत्वं तादृगर्थत्वमित्यर्थः । उपेति । उपमालंकारलं