________________
[ पूर्वार्ध
३४८
साहित्यसारम् । भङ्गीवैपुल्यतो यत्राकूतं व्यक्तं सविस्तरः। येन वृन्दावने रेणुर्भवेयं तत्तपः क मे ॥ १८७ ॥ ध्वनिः प्रतिपदं दिव्यो यदि गाम्भीर्यमीर्यते । अभीमोऽप्यभवो पीशोऽस्म्यनुमापतिरप्यहम् ॥ १८८ ॥ ऐश्वर्योत्कर्षशालित्वमुदारत्वमुदीर्यते ।
गुरुपन्नखदीप्त्यक्तरेणू श्रीशारदे खलु ॥ १८९ ॥ काष्ठानुभूता सेति ॥ १८६ ॥ विस्तरं लक्षयति-भङ्गीति । भङ्गी सरणिः । तमुदाहरति-येनेति । अत्रापि भक्तिवीर एव ध्वन्यते । यथावा भरणे'जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचस्तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने। ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यथारुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति' इति ॥ १८७ ॥ गाम्भीर्य लक्षयति-ध्वनिरिति । यदि प्रतिपदं यावत्सुबन्ततिङन्तं दिव्यः सहृदयहृदयहारी एतादृशः ध्वनिः रसायन्यतरव्यङ्गयार्थ इत्यर्थः । स्याचेत्तर्हि गाम्भीर्य ईर्यत इत्यन्वयः । तदुदाहरतिअभीमोऽपीति । अहं अहंकारोपलक्षितः कूटस्थः प्रत्यक्चिदात्मेत्यर्थः । एतेन वक्ष्यमाणसाक्षात्कारस्य पारोक्ष्यव्युदसनं त्वंपदार्थशोधनं च ध्वन्यते। अभीमोपि अभयंकरोऽपीत्यर्थः । एतेन अहिंसाप्रधानसंन्यासान्तनित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसंपत्तिपरिपाकः सूचितः । अपिना 'व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः' इति 'शंभुरीशः' इति चामरादभीमस्येशत्वं विरुद्धमिति विरोधस्तस्येशपदलक्ष्यजगज्जन्मादिकारणत्वोपलक्षितं सत्यज्ञानानन्तानन्दाद्वैतब्रह्ममात्रत्वस्य विवक्षितत्वेनाभासश्चेति प्रकृते विरोधाभासालंकारोऽपि व्यज्यते । एवं अभवोऽपि न विद्यते भवः संसारो यस्य स तथा । एतेन दृश्याधिष्ठानत्वस्यापि दृश्यनिरूपितत्वेन कल्पितत्वाच्छोधिततत्पदार्थत्वं द्योत्यते । विरोधाभासस्तु प्राग्वदेव । तद्वदनुमापतिरित्यत्रापि । अनुमायाः अनुमित्यात्मकधीवृत्तेः पतिरिव प्रकाशक इति यावत् । एतेन यावत्तकविरोधः प्रत्यक्षादिप्रमाणान्तरविरोधश्च परिहृत इति बोधितम् । एतादृशः ईशः निरुक्तचिन्मात्रः । एवंच प्रत्यगभेदयोग्यत्वं व्यज्यते । अस्मि नतु भविष्यामि तेनाज्ञानतत्कार्यध्वंसस्य साद्यस्कत्वं सूचितम् । इह ज्ञानवीर एव रसो व्यज्यते । यथावा कण्ठाभरणे-'मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रम चक्राकं वह पादयुग्ममवनिं दोष्णा समभ्युद्धर । लक्ष्मी भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पतेर्विश्वान्तःकरणैकचोर तदपि ज्ञातो हरिः खल्वसि' इति ॥ १८८ ॥ एवं क्रमप्राप्तमुदारखं लक्षयति-ऐश्वर्येति । अर्थ इति त्वार्थिकमेव । तदुदाहरति-गुर्विति । श्रीति । श्रीश्च शारदा चेति तथा लक्ष्मीसरखत्यावित्यविर्थः । गुर्विति । गुरोः श्रीमदाचार्यस्य यः पत्पादः तस्य यन्नखं तस्य ये दीप्ती पूर्वापरभागयोः पाटलधवलकान्ती ताभ्यां अके अभ्यङ्गेन यथा पदार्थस्य चाकचक्यं भासते तथा चाकचक्यशालिन्याविति यावत् । एता