SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् । रसालंकारमुख्यत्वभेदेनेदं भवेद्विधा। सरसाख्यं च चित्राख्यं स्वरम्भोरूशरीरवत् ॥ २८॥ नारायणोऽपि यस्य ब्रह्मनिष्टस्य चिन्तनं करोति, किं वाच्यं तस्य माहात्म्यमिति धिग्धिगिदं दृश्यसुखाभासजातमतो निरतिशयशमवतैवाद्वैततत्त्वावबोधपूर्वकं सर्वदा भाव्यमिति तमेवेत्याधुत्तरार्धेन ध्वन्यते। तत्र सकलदृश्यसुखमालम्बनम्। तत्रानादरोऽनुभावः। ब्रह्मनिष्टैकमहत्त्वबुद्धिर्विभावः । स्मृतिः संचारीभावः । एतैः पुष्टः प्रपञ्चौदासीन्यलक्षणो निर्वेदाख्यः स्थायिभावोऽत्र शान्तनामा रसः स्पष्ट एव । एवंलक्षणमपि अल्पाक्षरा विचित्रार्था ख्यातिरक्षरसंहतिः' इति चन्द्रालोकोक्तेरल्पाक्षररूपद्वितीयचरणेन समुद्रमथनादिलक्ष्मीस्वयंवरात्मकविस्तृतेतिहासस्य सूचनात्तदत्र विशदमेव । तथा 'आचतुष्टयमासप्तं यथेष्टैरष्टमादिभिः । समासः स्यात्पदैर्न स्यात्समासः सर्वदापि च । पाञ्चाली किंच लाटीया गौडीया च यथारसम् । वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः' । इति च तद्वचनादत्र सर्वथा समासाभावान्मधुरतमशान्तरसोपयुक्ता वैदर्भी रीतिः स्फुटैव । तद्वद्रमणीति रूपकमलंकारोऽपि। एवं काव्यलिङ्गादिकमप्यूह्यम् । अपि चात्र मधुरा वृत्तिः–'मधुरायां समाक्रान्ता वर्गस्था पञ्चमैर्निजैः । लकारश्च लसंयुक्तो ह्रखव्यवहितौ रणौ' इत्यपि तदुक्तेरत्र यमित्यादौ तथात्वात् । तस्मायुक्तमेवेदमुदाहरणमिति ॥ २७ ॥ एवं साधारण्येन सप्रपञ्चं सोदाहरणं काव्यलक्षणमभिधायाधुना सामान्यतः प्रसिद्धान् ध्वन्यादिरूपांस्तद्भेदानभिधातुं सरसत्वादिभेदेन सदृष्टान्तं प्रथमं तहे विध्यमाहरसेति । इदं पूर्वप्रकृतं काव्यं रसमुख्यत्वलक्षणः अलंकारमुख्यत्वलक्षणश्च यो भेदस्तेन क्रमात् सरसाख्यं सरसं काव्यमिदमिति लोकप्रसिद्धसरससंज्ञं तथा चित्राख्यं चित्रं काव्यमिदमिति । व्यवहारसिद्धचित्रसंज्ञं च स्वरम्भोरूशरीरवत् स्वीयाङ्गनाङ्गवत् द्विधा द्विप्रकारं भवेदित्यन्वयः । यथा निरुक्तयुवत्याः शरीरं हि शृङ्गाररसालन्बनतया तत्प्राधान्येन सरसमित्युच्यते, मुक्ताहाराद्यलंकाराश्रयतया तत्प्राधान्येन चित्रमिति चोच्यते तद्वत्प्रकृतकाव्यमपि शृ. ङ्गारादिरसप्राधान्येन सरसं उपमाद्यलंकारप्राधान्येन चित्रमिति च लोकादौ व्यवह्रियत इत्यर्थः । अत्र शृङ्गारो रसः । उपमालंकारः । नचेयमभिनवकल्प. नेति वाच्यम् । शब्दचित्रं वाच्यचित्रमित्यादावलंकारप्रधानस्यैव काव्यप्रकाशादौ चित्रपदवाच्यतादर्शनात् । 'इदमुत्तममतिशयिनि व्यङ्गये वाच्या निर्बुधैः कथितः' इति तदुक्तध्वन्यायुत्तमकाव्यस्य रसप्राधान्याविनाभावेन सरसताया अवश्यवाच्यत्वाच । तस्मायुक्तैवेयं कल्पनेति भावः । नच रसालंकारयोः साम्येन तृतीयोऽपि कश्चित् काव्यभेदः स्यादिति शङ्कयम् । अत्यन्तसाम्यस्य कुत्राप्यसंभवात् । एवमेव सरसभेदादावपि । अत्र मुख्यत्वेत्युक्त्या गुरुमध्यगतेति पूर्व सप्तदशश्लोकटीकायां मयोदाहृते रसगङ्गाधरध्वन्युदाहरणे नतभ्रूलतिकमिति रूपकालंकारस्य गुणभावेन सत्वेऽपि नाव्याप्तिः । तथा 'हृदये खेलतोरुच्चैस्तन्वङ्गयाः स्तनयोरिव' इति चन्द्रा.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy