________________
गुणस्त्रम् ७] सरसामोदव्याख्यासहितम् । २८७
सति मा खिद चित्ते त्वं श्रीरामः समुपागतः ।
यदयं वलितो लंकाप्राकारः कीशकोटिभिः ॥ २१॥ संदेहः । तथाच विरहिणीवाक्यत्वेन चातुर्यातिशयसूचकत्वेनार्थयुगस्यापि विवक्षितत्वेन च संदेहस्यैवात्रोद्देश्यत्वात्तनिर्णयार्थ खनाथे किंचित्कालं विचारयति सति तावत्कालमेव तत्संगमाधिक्यलाभसंभवाभिसंधिसत्वाच गुण एव स इति दिक । यथावा 'इह नगरे प्रतिरथ्यं भुजंगवासो निरुद्धसंचारः । शृणु सखि साधनमेकं नकुलप्रतिपालनं श्रेयः' इति । अत्र विदग्धसखीवक्तकत्वेन भुजंगपदस्य जारवाचकत्वं अनिरुद्धत्यकारप्रश्लेषणं नेति पदभञ्जनं च नूतनं ग्रामान्तरादागतां खसखीं प्रति व्यभिचारपरतामुपदेष्टुं वक्तव्यत्वात्किमिदमिति केनचित्प्रौढेन पृष्टं चेतं प्रति तद्गोपनार्थ भुजंगेति सर्पपरमकाराप्रश्लेषणं नकुलेयेकपदं चेति वक्तमुचितत्वान्नकुलेयादिसंदेहोप्युद्देश्यतया गुण एवेत्याशयः। एवं वाच्येन निर्णयस्थलमप्युदाहरति-अलमित्यर्धेनैव । इदमपि तस्या एव वचः । हे कान्त, अधुना भवत्प्रवासकालेऽद्य कारालये बन्दिगृहरूपे। अतिदुःखद इत्यर्थः । एतादृशे देहे मम व्यामोहेन सकलमहिलोत्तमगुणवत्त्वेन कदाप्यप्रवसत्पतिकत्वाद्धन्यवाहं रमणीति भ्रमरूपेणाध्यासेनेति यावत् । अलं मैव भाव्यमिति भावः । अत्रौदासीन्यरूपेण वाच्यार्थेनैव अलमित्यादिपदभेदस्य निर्णीतत्वादलंकारालय इत्यादिपदैक्यादिना संदेहोऽपि गुण एवेति हृदयम् । यथावा रघुवंशे'आसीद्वरः कण्ट कितप्रकोष्ठः खिन्नाङ्गुलिः संववृते कुमारी। वृत्तिस्तयोः पाणिसमागमेन समं विभकेव मनोभवस्य' इति । अत्र पाणीत्यादितृतीयान्तं सप्तम्यन्तं वा आद्यपि सहार्थकमेव सममित्युत तुल्यार्थकत्वेनोत्तरान्वयोति संदेहोऽपि वधूवरयोस्तुल्यसात्विकभावाविर्भावरूपस्य शृङ्गारचेष्टाविशेषस्य वाच्यत्वेन तृतीयान्तवादेरेव निश्चयाद्गुणवमेवैतीति ॥ २०॥ तद्वत्प्रकरणादिनापि निर्णयस्थलमुदाहरति-सतीति । इह सतीति किं चित्तविशेषणं सीतासंबोधनं वेति संदेहस्यापि श्रीरामसमुपागमनान्यथापत्तिसिद्धयुद्धकाण्डप्रकरणेन सीतासंबुद्धेरेव निर्णयाद्गुणत्वमेवेति भावः । ननु जानकी प्रति त्रिजटावाक्यकल्पनेऽस्तु नामैवं, मुमुखं प्रति गुरुवाक्यकल्पने तु-रे शिष्य, त्वं मा खिद खेदं मा कुरु । यतः सति शुद्ध तव चित्ते श्रीरामः परमात्मा समुपागतः साक्षात्कारद्वाराभिव्यक्त इत्यर्थके कथं वा न चित्तविशेषणमित्याशङ्कां शमयत्नादिपदोक्तलिङ्गनिर्णयस्थलमप्युदाहरति—यदयमिति । 'मर्कटो वानरः कीशः' इत्यमरः । वलितः वेष्टितः । इदं हि सीतासंबुद्धिनिर्णये हेतुरूपं लिङ्गं विशदमेव । तेनाप्यत्र गुणत्वं स्कुटमेव । यथावा कुवलयानन्दे–'अहो केनेशी बुद्धिर्दारुणा तव निर्मिता। भ्रूयते त्रिगुणा बुद्धिर्नतु दारुमयी क्वचित्' इति। इह के उदके इति संदेहः । स च वक्रोक्तिसिद्धेन यूनोः संवादप्रकरणेन तृतीयान्तत्वनिर्णयाद्गुण एवेति संक्षेपः।।२१॥