________________
[पूर्वार्धे
२८२
साहित्यसारम् । अर्थोचित्यरसत्वानुकृतिप्रकरणादिनः। वक्राकर्णयतोः शाब्दिकत्वस्याप्युपलक्षणम् ॥१२॥ गुणोऽप्रयुक्तमप्यत्र यमकाद्यनुकारयोः।
दैवतो दैवतो मेऽग्निः पद्मः फुल्ल इतीरितम् ॥ १३॥ रस्य तथात्वेऽपि तत्वमेवेति हृदयम् । इयं हि कांचिद्गुणलुब्धां तरुणीं प्रति कस्यचिद्विरक्तस्योक्तिस्ततः कामं प्रत्यपीति ॥ ११ ॥ नन्वनुकरणादावपि श्रुतिकटोरदोषत्वदर्शनात्कथमयं वीरादिरसावच्छेदनियम इति चेदिदं तेषामप्युपलक्षणमित्याह-अर्थोचितीति । अर्थोचितिश्च अरसत्वं च अनुकृतिश्च प्रकरणादि चेत्येतेषां समाहारस्तथा तस्येत्यर्थः । अर्थोचितिरर्थयोग्यता। यथा-'आलोलामलकावली विलुलितां बिभ्रचलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां जालकैः । तन्व्या यत्सुरतान्ततान्तनयनं वकं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः' इति । अत्र कामशास्त्ररहस्यव्यञ्जकं शृङ्गाररसमात्रप्रचुरं काव्यं कर्तुरमरुकनृपाख्यस्य सकलकविचक्रवर्तिचूडामणेविनेयविषयकरतिपारवश्येन श्रुतिकटोः ऋकारस्य प्रयोगाकरणानवधानलक्षणस्यार्थस्य योग्यत्वात्तत्रोक्तरीत्या भावध्वनित्वेन तदङ्गीभूतशृङ्गारप्रचुरत्वेन च मधुररसप्रधानत्वेऽपि नासौ दोषः । एवं अरसत्वं रसहीनत्वं चित्रकाव्यत्वमिति यावत् । यथा-सगरुद्वनदुर्गदुर्ग्रहान्कटुकीटान् दशतः सतः क्वचित् । ननुदेतनुकण्डुपण्डितः पटुचञ्चूपुटकोटिकुट्टनैः' इति नैषधीये ग्रंकारः। अनुकृतिरनुकरणम् । यथा काव्यप्रदीपे'मृगचक्षुषमद्राक्षमित्यादिकथयत्ययम्' इत्यादि। अत्र द्राकारः। प्रकरणं प्रसिद्धमेव । यथा माघे–'रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ' इत्यादौ प्रकरणप्रतिपाद्ये वीररसे तदङ्गीभूते शृङ्गारे च्छिकारः । आदिशब्देन देशकालादिः । यथा हनूमन्नाटके'कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वकमलम् । मुहुः पश्यन् शृण्वत्रजनिचरसेनाकलकलं जटाजूटग्रन्थि रचयति रघूणां परिवृढः' इति । इदं हि जनकरङ्गाङ्गणे धनुर्भङ्गकालिकं श्रीरामवर्णनम् । तत्र तद्दे. शकालयोीररसानुगुणत्वेन डकारः, पूर्वार्धगतशृङ्गारोऽपि गुणः । वक्रिति । वक्ता च आकर्णयश्चेति तथा तयोर्वक्तश्रोत्रोरित्यर्थः । शाब्दिकत्वस्य वैयाकरणत्वस्यापीत्यर्थः । इदं वीररसाद्यवच्छेदेन श्रुतिकटोरपवादकथनमुपलक्षणं भवतीत्यध्याहृत्यान्वयः। तौ च क्रमेणोक्तौ प्रदीपे यथा-'दीधीवेवीसमः कश्चिद्गुणवृद्ध्योरभाजनम् । विष्प्रत्ययनिभः कश्चिद्यत्र संनिहितेन ते' । अत्र दुर्जनोपलक्षितयावत्संसारनिन्दाप्रस्तावेन शान्तरसोऽपि वक्तुः शाब्दिकलेन धोकारादिः । एवं 'यदा वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदास्मार्षे समस्प्राक्षं च सं. मदम्' इति । इहापि वैयाकरणदर्शनेन सर्वज्ञस्य सद्गुरोः स्मरणात्ततो ब्रह्मानन्दाच शान्तरसेऽपि स्प्राकारस्तथेति । विस्तरस्तु तत्रैव ज्ञेयः ॥ १२ ॥ एवं वर्णदोषापवादमुक्त्वाथ पददोषेष्वपि केषुचित्तं वदनप्रयुक्तमपवदति-गुण इति । अत्र