SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । I रन्तुमिच्छति कान्तेयं यूनानङ्कुरशालिना । जरठं स्वर्गतं कान्तमनुरोदनसुस्वरा ॥ २२७ ॥ चाणूर चूर्णयाद्य त्वं गोपमल्लाविमौ बलात् । मन्त्राता भविता कोयत्कृष्णः स्फुरति सर्वतः ॥ २२८॥ युष्मदस्मत्प्रयोगाणां प्राचुर्य मे तथा मतम् । भो प्रिये वलितग्रीवं सस्मितं मां किमीक्षसे ॥ २२९ ॥ सामग्री प्राग्वदेवोह्या ॥२२६॥ तथा हास्य करुण विरोधमप्युदाहरति — रन्तुमिति । अनङ्कुरेति । नाभ्यधो रोमोगमाभाववतेर्थः । अभिनवयौवनशालिना सहेति यावत् । कथमिदं निर्णीतमित्याकाङ्क्षायां तस्यास्तारुण्यव्यञ्जकः सुखर एव तत्र हेतुरिति द्योतयंस्तां विशिनष्टि - जरठमिति । वृद्धमित्यर्थः । इह पूर्वोत्तरार्धयोः सामानाधिकरण्यादिना हास्य करुणौ व्यक्तावेव ॥ २२७ ॥ तद्वद्वीरभयानक विरोधमप्युदाहरति — चाणूरेति । इयं हि रामकृष्णाभ्यां कुवलयापीडाख्यं गजमपि तद्वदेवोन्मद्ये रङ्गप्रवेशे कृते सति कंसस्य चाणूरनामानं मल्लविशेषं प्रत्युक्तिः । हे चाणूर, त्वं अद्य अधुनैव नतु क्षणान्तरे । इमौ निरुक्तपराक्रमपूर्वकं प्रत्यक्षौ । अतएव - गोपेति । गोपेषु मलौ कर्मभूतौ रामनारायणावित्यर्थः । एतेन पराक्रमातिशयः सूचितः । अतएव बलात् यावन्निजसामर्थ्येनापि चूर्णय मगजवदेव मर्दयेत्यन्वयः । अत्र रामाद्यालम्बितस्तत्पराक्रमेक्षणाद्युद्दीपितश्चाणूरं प्रत्याज्ञादिद्योतितगर्वादिसहचरितः कंसस्य पुरोवर्तिशत्रु दर्शनजन्य पुलकाद्यनुभावितः प्रोत्साहस्थायिभावो युद्धवीररसः स्फुट एव । तथोत्तरार्धे मत्राता मद्रक्षकः परंतु कः भविता भविष्यति । किंशब्द आक्षेपे । न कोऽपि स्यादित्यर्थः । तत्र हेतु :यदित्यादिना । यद्यस्मात्कारणात् कृष्णः सर्वतः यावद्वस्त्ववच्छेदेनेत्यर्थः । स्फुरति भासत इतियावत् । यतो मच्छत्रुरेव सर्वत्र मामवभासतेऽतो भवतां यो मद्रक्षकत्वेन संमतः स्यात्सोऽपि मम शत्रुरेव भायादिति न कोऽपि मम संरक्षणक्षम इत्याशयः । एवंच श्रीकृष्णालम्बनः सर्वत्र तत्स्फुरणोद्दीपनः तत्सिद्धकम्पाद्यनुभावः चिन्तादिसहचारी भयस्थायिभावो भयानकरसश्च तद्विरोधीति । अत्रापि सामानाधिकरण्यादिकं प्राग्वदेव बोध्यमित्यलं पल्लवनैः ॥ २२८ ॥ अथ स्वसंमतमेकं रसदोषमाह – युष्मदिति । तथा रसदोषत्वेनेत्यर्थः । मे मतं संमतमस्तीति यावत् । एवंच प्राचीनादिभिरेतदनुक्तावपि तत्र ग्राम्यत्वादिवद्वैरस्यजनकतायाः सकलसहृदयहृदयसाक्षिकत्वान्नासावुपेक्षणीय इत्याशयः । तमुदाहरति भूयस्त्वसिद्ध्यै - भोइत्यादिना । विशेषतः खानुरागविषयत्वमपि तस्यां सूचयितुं प्रिये इति । वलितेति क्रियाविशेषणम् । ईषद्वत्रीकृतकंधरं यथा तथेत्यर्थः । एतेन विलासिनीस्वभावः स्फुटितः । एवं सस्मितमित्यपि । एतेन निरुक्तावलो - कने रोषादिसंभव युदासो द्योतितः । किंशब्दोऽयमाक्षेपे । उक्तरीत्या मां किमितीक्षसे तर्हि नेथं वीक्षणं कार्य किंतु तदुत्तरमालिङ्गनाद्येव द्रुतं देय - २७५
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy