________________
२५२
साहित्यसारम् ।
[ पूर्वार्धे भूदार इव वीरोऽयं मधुपो भ्रमतीन्दुवत् । गङ्गाधरो यथा चक्री कामिन्यः खनिभिः समाः ॥ १८१ ॥ अरसोऽप्यनलंकारान्निरलंकार उच्यते। नग्निकादेह आभाति मङ्गलस्नानचिक्कणः ॥ १८२ ॥ इत्येकचत्वारिंशत्तु रसभिन्नार्थगा मया। दोषाः प्रपञ्चिताः सर्वे रसगान्वच्मि तानथ ॥ १८३॥ स्वस्ववाचकशब्दैर्यद्रसादेः कथनं हि तत् । शृङ्गाररससर्वस्वं हरे गौरि तव स्मितम् ॥ १८४ ॥
तथा उपमायाः हीन तादयस्तत इत्यर्थः । अप्रसिद्धिस्त्वियमुपमासंबन्धिन्येवेति विशेषात्पूर्वोक्त प्रसिद्धिविरुद्धतोऽस्य भेदः । हीनेति । विबुधैश्चत्वारोऽपि क्रमाद्वोध्या इति योजना ॥ १८० ॥ क्रमेणोदाहरति-भूदार इवेत्यादिचरणचतुटयेन । चतुरोऽपि हीनोपमादीन् । अत्र वीरे भूदारशब्दितसूकरस्योपमानाश्लाघ्यत्वाद्धीनोपमत्वमिति । मधुप इति । मधुपो भ्रमरः । इह तुच्छजात्यस्य तस्य चन्द्रोपमायामत्याधिक्यादधिकोपमत्वम् । यथावा कण्ठाभरण एव-'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः' इति । गड़ेति । अत्र गङ्गाधारणशीलिनि शिवे चक्रविशिष्टस्य विष्णोरुपमानस्य साधHशून्यवादसदृशोपमानत्वम् । कामिन्य इति । अत्र कामिनीनां खन्युपमायाः काव्यादावप्रसिद्धवादप्रसिद्धोपमत्वमवगम्यते ॥ १८१ ॥ एवं निरलंकारं ल. क्षयति-अरसोऽपीति । तेन यः कौमारेत्यादौ नातिव्याप्तिः । तमुदाहरतिनग्निकति । 'ननिका नागतार्तवा' इत्यमरादप्राप्तरजस्कायाः काय इत्यर्थः । अत एव अरसखम् । गूढरसस्य तु सर्वत्र सखात्पुष्टरसाभाव एव प्रकृते ग्राह्यः । चि. कणवं मसृणलम् । नचात्र स्वभावोक्तिः । मङ्गलस्नाननिर्मल इति श्लाघ्यविशेषणशून्यत्वात् । अतएव तत्र अनलंकारादुपमा ग्रैवेयकाद्यलंकारविरहानिरलंकारसंज्ञलमिति तात्पर्यम् ।। १८२ ॥ अथ रसेतरार्थदोषान् ससंख्यमुपसंहृत्य रसदोषकथनं प्रतिजानीते-इतीति । सर्वे दोषाः प्रपञ्चिताः सन्तीति संबन्धः । अथ निरुक्तदोषनिरूपणानन्तरम् । रसगात्रसनिष्ठान् । तान्दोषान्वच्नि। कथायामीत्यर्थः । अहमिति शेषः ॥ १८३ ॥ 'व्यभिचारिरसस्थायिभावानां शब्दवाः च्यता। कष्टकल्पनया व्यक्तिरनुभावविभावयोः। प्रतिकूलविभावादिग्रहो दीप्तिः पुनपुनः । अकाण्डे प्रथमच्छेदावङ्गस्याप्यतिविस्तृतिः । अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः । अनङ्गस्याभिधानं च रसदोषाः स्युरीदृशाः' इति काव्यप्रकाशीयसूत्रसरण्याः क्रमेणात्र तान्कथयितुं रसस्य हि प्राधान्यात्तत्प्रभृतित्वेनैव प्रथम शब्दवाच्यताख्यं त्रिदोषमुद्दिशति-स्वस्वेति । यत्स्वखवाचकशब्दैः रसादेः आदिना स्थायिव्यभिचारिणौ ग्राह्यौ । कथनं हि प्रसिद्धं तत् रसदोषजातं ज्ञये