SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । विपरत्नम् । गौणव्यङ्गयं प्रपञ्चयैवं तं दोषं वर्णयाम्यहम् । रतान्तक्लान्तकान्तायाः कान्तवत्स्वोल्लसगिरः ॥ १ ॥ यस्तिष्ठन्हृदये काव्यमधः पातयति क्षणात् । भारत्यर्थजुषं दोषं भाषन्ते तं मनीषिणः ॥ २॥ १८१ पूर्वरत्नेन साकमस्य रत्नस्य सांगत्यं ब्रुवन्नेतद्विषयं कथयितुं प्रतिजानीतेगौणेति । रतान्तेति । सुरतसमाप्तिश्रान्तखसीमन्तिन्या इत्यर्थः । कान्तेति । तद्रमणवदिति यावत् । स्वेति । स्वस्य आत्मनः नत्वन्येषाम् । एतेन परदोषोद्घोषणव्युदासः सूचितः । उल्लसन्ती काव्यरूपेण विकसन्ती या गीर्वाक् तस्या इत्यर्थः । एवं पूर्वरत्नोक्तरीत्या गौणव्यङ्ग्य उत्तमकाव्यम् । पक्षे गुणानामनेकत्वात्तत्संबन्ध्यवश्यद्योत्यरहस्यम् । तं ' तत्र निर्दोषशब्दार्थ' इत्यादिप्रथमरत्नोक्तकाव्यसामान्यलक्षणोपक्षिप्तमित्यर्थः । पक्षे पूर्वमालिङ्गनवेलायां स्वग्रीवाग्रैवेयकीभूतमित्यर्थः । दोषं वक्ष्यमाणलक्षणं शब्दार्थान्यतरधम् । पक्षे भुजम् । विशदमन्यत् । यथा कश्चिद्विलासी तावत्स्वप्रेयस्याः क्रीडोपरमे तन्मुखाद्यवयवेध्ववकाशवशेन दृष्टिताटस्थ्यसंभवात्तद्गुणबाहुल्येऽपि तत्र यावदवश्यसूच्यं मुख्यतमांशमभिवर्ण्य पुनस्तां रत्यर्थमुद्दीपयितुं तत्पूर्वाङ्गीभूतालिङ्गननिपुणं तद्वाहुं स्तौति तद्वदहं स्वकीयकाव्याकारपरिणतवाण्याः पूर्वप्रकरणे गौणव्यङ्गयाख्योत्तमकाव्यभेदं प्रपञ्च्य तलक्षणे हेयत्वेनोद्दिष्टं दोषमपि परिहारार्थ त्यागार्थे वा वर्णयामीति भावः । खोल्लसद्विर इति पदं निरुक्तकान्ता विशेषणत्वेनापि योज्यम् । तथाच स्वस्मिन्निजप्रेयसि विषये उल्लसन्ती तद्वर्णनं कर्तु विकसन्ती नतु तत्र प्रवृत्ता गर्भारती यस्याः । एवंच नायिकाया अपि नायकेऽनुरागातिशयो व्यक्तः । उल्लसत्पदेन तस्यां लज्जासौकुमार्यादिमान्थर्य ध्वनितम् । ननु काव्यलक्षणोद्देशक्रमानुसारेण तु द्वितीयरत्न एव दोषकथनमुचितं तद्विहाय किमित्यत्र षष्ठप्रकरणे तत्कथनमिति चेत्सत्यम् । यद्यपि त्वदुक्तरीत्या दोषस्य द्वितीयप्रकरण व कथनौचित्यं तथापि प्रथमं काव्यसामान्यलक्षणं समुपपाद्य, कतिविधं तत्काव्यमित्याकाङ्क्षायां ‘रसालंकारमुख्यत्वभेदेनेदं भवेद्विधा' इति सरसादिभेदेन सुबोधार्थ साधारण्येन तद्वैविध्यमभिधाय, तस्यापि प्रत्येकं ध्वन्यादिभेदात्तथात्वमुक्त्वा तच्चातुर्विध्ये सिद्धे तत्प्रासङ्गिकं द्वितीयरत्नादावुपपाद्य, चतुर्थादौ निरुक्तसरसं प्रतिपाद्य धर्मा रसा इत्याद्युक्तकाव्यगुणषट्कान्तर्गतस्य रसस्यैतेनैवोक्तत्वात्तथालंकारस्यापि अष्टमरत्नादौ वक्ष्यमाणचित्रकाव्यभेदद्वयद्वारैव सिषाधयिषितत्वाच्चावशिष्टधर्मादिगुणचतुष्टयकथनात्प्रागेवात्र देहलीदीपन्यायेन तेन सहैवैतदभावस्य सरसाद्युभयकाव्ययोरप्यपेक्षितत्वाद्युक्तमेवात्र तन्निरूपणमिति दिक् ॥ १॥ तमेव सामान्यतो लक्षयति-यस्तिष्ठन्निति । हृदये अन्तःकरणे । पक्षे १६
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy