________________
१४०
पूर्वार्ध
साहित्यसारम् । चिरं भूरितरोपायैरहल्याधरपल्लवम् । इन्द्रः संपीय सानन्दं कृतकृत्यः सुधापराट् ॥ १७७॥ रोहिण्यादिषु सर्वासु सतीषु रमणीष्वपि । चन्द्रस्तारात्वमारोप्य रमन्पुष्टोऽन्यथा क्षयी ॥ १७८ ॥ भावशान्तिस्तु पूर्वोक्तभावेष्वन्यतमक्षयः।। सोऽपि चोत्पत्त्यवच्छिन्न एवं भावोदयोऽप्यसौ ॥ १७९॥ राधे ममाघरस्येदमारुण्यं त्वदपाङ्गयोः।
स तदिच्छति चादातुमिति वाक्येन तद्गतम् ॥ १८०॥ चिरमिति । अत्र बहुकालमनेकोपायाक्षिप्तनायिकासौन्दर्योत्कर्षोद्दीपितोऽहल्यालम्बितः कृतकृत्यत्वाक्षिप्तरोमाञ्चाद्यनुभावितो हर्षादिव्यभिचारितः परिकररूपकाद्यलंकारापेक्षया चमत्काराधिक्यजनकत्वेनेन्द्रनिष्ठोऽहल्याविषयकरत्याख्यः स्थाय्येव प्राधान्येन ध्वन्यते । अगम्यालम्बनत्वेनोक्तरतेराभासत्वं बोध्यम् । अतएव सुधापर डिति पदे समासोक्त्यलंकारेणेन्द्रस्य चूर्णपरिपालकराजत्वरूपमतिनीचत्वं सूचितम् ॥१७७॥ एवं भावाभासमप्युदाहरति-रोहिण्यादिष्विति। सर्वेत्यादिपदत्रयेण तासां यावत्स्त्रीगुणयुक्तत्वेन नायकस्यान्यस्त्रीस्मरणानौचित्यं द्योत्यते । एवं चात्र ताराख्यगुरुसुन्दरीस्मरणमेव हेत्वलंकारादिभ्यः प्राधान्येन ध्वनितम् । तस्य चानुचितविषयत्वेन भावाभासत्वं तेनात्र क्षयीति पदसूचितं नायकस्य महापातकित्वेन राजयक्ष्मशालित्वं व्यज्यते ॥ १७८ ॥ एवं रसाभासभावाभासौ प्रपव्य क्रमप्राप्तत्वेन भावशान्ति तद्वदादिपदगृहीतानां भावोदयभावसंधिभावशबलतानां मध्ये भावोदयं च लक्षयति-भावशान्तिस्त्विति । पूर्वोक्तेति । पूर्वोक्ता ये भावाः निर्वेदादयो व्यभिचारिभावाः तेष्वित्यर्थः । अन्यतमेति । अन्यतमस्य यस्य कस्यचिद्भावस्य क्षयो नाश एव भावशान्तिर्भवतीति संबन्धः । तत्रापि विशेषान्तरमाह-सोऽपीति । निरुक्तक्षयोऽपीत्यर्थः । उत्पत्त्यवच्छिन्नः उत्पत्तिकालावच्छिन्न एव ग्राह्यो नतु कालान्तरावच्छिन्नोपि । तस्यैव सहृदयालादकत्वादिति भावः । एवंच खोत्पत्त्यवच्छेदेन निर्वेदाद्यन्यतमध्वंसत्वं भावशांन्तित्वमिति तल्लक्षणं ज्ञेयम् । असौ प्रागादिपदद्योतितो भावोदयोऽप्येवमेवोकरीतिलक्षणलक्षित एवेति योजना । तस्मात्खोत्पत्त्यवच्छेदेन निर्वेदाद्यन्यतमोदयत्वं भा. वोदयत्वमित्याशयः ॥ १७९ ॥ तत्र भावशान्तिमुदाहरति-राध इति । इदं हि मानवती राधां प्रति भगवद्वचनम् । हे राधे, त्वदपाङ्गयोः वनेत्रकोणयोः इदं प्रत्यक्षं मम अधरस्य अधरोष्ठस्यैव आरुण्यमारक्तत्वमस्तीत्यन्वयः । नेदं तवापागयोः कोपजन्यमारुण्यं । परमसुशीलायास्तव सर्वसाधारण्येनापि कोपोद्रेकस्य खप्ने. ऽप्यसत्वात्तत्रापि मद्विषये तु सुतरां तदसंभवाच्च, किंतु त्वत्संमुखं स्थितस्य ममैवाधरोष्ठनिष्ठं तन्मदधरचुम्बनार्थं त्वया तत्सौन्दर्यलुब्धत्वेन ताटस्थ्यात्वनेत्रयोस्तत्रैव नियोजितत्वेन तत्र प्रतिबिम्बितं बभूवेति भावः । एतेन खनिस्तद्रोषमप.