SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् । म्बनः मधुना मधुरोद्याने जानकीं रघुनन्दनः । उल्लसन्तीं समालिङ्गय किमनङ्गमचिन्तयत् ॥ ७२ ॥ स्वं हीरमन्दिरे कान्तं दूरतः प्रतिविम्बिते । वैदेही वीक्ष्य पाद्याय स्वेदपूर्णाञ्जलिर्बभौ ॥ ७३ ॥ गोपालगोसंख्यगोधुगाभीरबलवा:' इत्यमरादाभीरो गोपस्तस्य तरुणी काचिगोपयुवतिस्तामित्यर्थः । पुलकितः संजातरोमाञ्च इति यावत् । स्पष्टमेवान्यत् । अत्रान्त:पुरपदवाच्य रहः स्थानदर्शनेनोद्दीपितः सुप्तपदाक्षिप्तव्य त्यस्तवसनमुग्धबल्लव्यालतद्दर्शनपुलकोद्गमानुभावितस्तदन्यथापत्तिसिद्धहर्ष संचारी श्रीकृष्ण निष्टो निरुक्तगोपीविषयकरत्याख्यः स्थास्येव प्रहर्षणालंकारात्प्राधान्येन ध्वनितः । तत्र नायिकायाः सुप्तत्वाद्विषमानुरागत्वं स्पष्टमेव । अत्र तरुणीपदेन सुप्तपदेन च विवसनकुचकनककलशादि तत्तदवयवानां प्रशस्तमवेक्षणादुक्त कामाकुलत्वार्हलं कृष्णपदेन श्यामवर्णत्वान्निशि चौर्यायान्तःपुरप्रवेशार्हत्वं च व्यज्यते । अवान्तरपञ्चलक्षण्याः समन्वयस्तु प्रागुक्तदिशैव कार्यः । अत्र मुग्धा परकीया नायिका । प्रहृष्टो नायकः । विषमानुरागको गुप्तसंभोगः शृङ्गारः । प्रहर्षणमलंकारः । तत्तूक्तं कुवलयानन्दकारिकासु – ' वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः' इति ॥ ७१ ॥ ततः क्रमप्राप्तं स्पष्टसंभोगाख्यं समानुरागकं तमुदाहरति — मधुनेति । वसन्तेनेत्यर्थः । मधुरेति । मधुरं विकसितत्वेन सुन्दरं मधुरगन्धि वा एतादृशं यदुद्यानमुपवनं तस्मिन्नित्यर्थः। उल्लसन्तीं हृष्यन्तीमित्यर्थः । एतादृशीं जानकीं समालिङ्गय गाढमाश्लिष्य रघुनन्दनः श्रीरामः अनङ्गं कामं अचिन्तयत्किं ध्यातवान्किमित्यन्वयः । तदालिङ्गनेन स्तब्धोऽभूदिति भावः । एतेन स्तम्भाख्यः सात्विकानुभावः सूचितः । अत्र प्रथमपादेनोद्दीपनविभावो द्वितीयेनालम्बनविभावश्चतुर्थेन सात्विकानुभावः समालिङ्गयेति कायिकानुभावः शेषेण संचारिभावः समुच्चितैरेतैः सीतारामयोः परस्परं समरत्याख्यः स्थायिभावश्चोत्प्रेक्षालंकारापेक्षया मुख्यत्वेन ध्वन्यते । निरुक्तसामग्र्यैव कामस्य समुद्दीप्तत्वसंभवेन तद्ध्यानकल्पनस्य स्तम्भतश्चमत्काराधिक्यानाधायकत्वादिति । अत्र प्रगल्भा स्वीया नायिका । स्तब्धो नायकः । स्वकीयाविषयत्वेन स्पष्टः संभोगाख्यः समानुरागकः शृङ्गारः । उत्प्रेक्षालंकारः। यथावा भानुमिश्राः - ' स्तम्भेन चाटुवचनानि पराहतानि पाणिः पयोधरगतो जडतां जगाम । लक्ष्म्याः परंतु पृथुवेपथुरेव नीवीं विस्रंसयन् सुहृदभून्मधुसूदनस्य' इति ॥ ७२ ॥ इयमेव विषमानुरागकमुदाहरति-स्वमिति । वैदेही विदेहस्यापत्यं स्त्री सीतेत्यर्थः । एतेनैकान्ते तस्यास्तत्वानुसंधानशीलत्वेन वक्ष्यमाणप्रतिबिम्बेऽपि सत्यत्वभ्रमात्वं द्योतितम् । हीरमन्दिरे हीराख्यप्रसिद्धशुक्लरत्नमये स्वीयविलासनिलय इत्यर्थः । एवं चोद्दीपनविभावः प्रतिबिम्बनार्हत्वं च सूचितम् । दूरतः ततो दूरवर्तिसदः स्थानादितः प्रतिबिम्बितं आगच्छन्त १११
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy