________________
दक्षिणावर्तकम्बुरत्नम् ४]
सरसामोदव्याख्यासहितम् ।
1
वोक्तशृङ्गारो व्यज्यते । सह गोपालैः स्वाङ्गण इति पदत्रयं तु तन्मोदे हेतुं सूचयन् तस्य कैशोरावस्थामपि द्योतयति । रिङ्गणपदस्यायमाशयः । यथा बालस्तावद्रिङ्गन्सन्नकस्मादेव चापल्यवशात्किंचिद्वस्तुजातं पश्यतामपि जनानां दृष्टि वञ्चयित्वैवाकर्षति तद्वद्वाधा निजापाङ्गाभ्यां पश्यतामपि गोपालानां दृष्टिं वञ्चयित्वाऽकस्मादेव श्रीकृष्णमनः समाकर्षितवतीति । ननु कथमेवं संभवेद्यतस्तत्सुहृदस्तत्र बहवः स्थिता एवेति तैर्ज्ञातमेवेदं भवेदिति चेन्न । गोपालपदेनैव दत्तोत्तरत्वात् । यतस्ते गोपालनमात्रपटवो नतु शृङ्गारचातुरीधुरीणाः । नोचेत्कौमुद्यां सह मित्रैः स्वैरिति विन्यासः कृतः स्यात् । किंच रिङ्गणैरिति पौनःपुन्यसूचकबहुवचनेन चाञ्चल्यं नायिकाक्ष्णोस्तथा तस्याः श्रीकृष्णे प्रेमातिशयोऽप्यावेद्यते । अन्यथा रिङ्गणादित्येवोच्येतेति । अत्र हि प्रागुक्तमाधुर्यादिसमुचितषाड्गुण्ये सति सकलशब्दार्थदोषशून्यत्वरूपकाव्यसामान्यलक्षणवत्त्वं रसमुख्यत्वरूपसरसकाव्यत्वं व्यङ्गयप्रधानत्वाख्यमुत्तमोत्तम काव्यत्वाभिधं सामान्यतो ध्वनित्वं शक्तिमूलविवक्षितान्यपरवाच्यालक्ष्यक्रमव्यङ्गयरसध्वनित्वं गुप्तसंभोगशृङ्गारवत्त्वं चेति पञ्चलक्षणी बोध्या । उक्तदोषराहित्ये सति धर्मरसलक्षणरीत्य लंकृतिवृत्त्याख्यगुणषट्कवत्त्वात् । हरति स्वगुणैः सकलसुन्दरीमनांसीति 'राध साध संसिद्धा' इति धातुसूत्राद्राधयति संसाधयति चातुर्यैः स्वेष्टमिति च व्युत्पत्त्या साभिप्रायविशेष्याख्यपरिकराङ्करालंकारात्, तथा ज्वराद्याधिभौतिकदुःखसत्वे परमसुन्दर्यादेरपि तृणत्वापत्तेरतो मुदितमिति विशेषणस्यापि हेतुघटितत्वेन 'अलंकारः परिकरः साभिप्राये विशेषणे' इत्यायुक्तलक्षणपरिकरालंकाराच्चोक्तरसस्य प्राधान्यात्, चकपैतिपदस्याकर्षणकरणलक्षणवाच्यार्थापेक्षया राधाकर्तृकश्रीकृष्णकर्मक नेत्रान्तव्यापारकरणकप्रलोभनरूपव्यङ्गथार्थस्यैवाधिकचमत्कारकारिकत्वात्, कौमुद्यादिपदेषु लक्षगाभावविवक्षितान्यपरवाच्यार्थत्वा लक्ष्यक्रमव्यङ्ग्यत्वेभ्यः निरुक्तनायिकाया: परकीयात्वेनोक्तरसस्य तद्विषयत्वस्त्रीपुंस दर्शनादिजनितसुख विशेषत्वाभ्यां चेति । नन्वस्त्वेवं लक्षणसमन्वयोऽन्येषां लक्षणानाम् । तथापि राधायाः परकीयात्वेनात्र गुप्तसंभोगश्शृङ्गाररसत्वं साधितं तदनुपपन्नम् । गुप्तत्वे परकीयामात्र - विषयत्वस्य नियतत्वाभावात् स्वकीयायामपि लज्जाभयपराधीनरतिलक्षणायां मुग्धापरनामधेयायां नवोढायां तथा समानलज्जामदनत्वलक्षणायां मध्याभिधायां च तत्सत्वात् । तत्राद्योदाहरणं रसगङ्गाधरे यथा – 'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते' इति । ‘समीपे निकटासन्न संनिकृष्टसनीडवत् । सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरात्सविधे समीप इत्यर्थः । द्वितीयोदाहरणं काव्यप्रकाशे अमरुककवेः पद्यमुदाहृतं - 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वये पत्युर्मुखम् । विश्रब्धं परिचुम्च्य जातपुलकामालोक्य गण्डस्थली
यथा
१०
१०९