________________
८८
साहित्यसारम् ।
रसो वै स रसं लब्ध्वा ऽनन्द्ययं स्यादिति श्रुतेः । पक्षश्चरम एवात्र परमः परमास्पदम् ॥ १५ ॥
[ पूर्वार्धे
इति । यद्वेति । अनेनास्मिन्मते वक्ष्यमाणश्रुत्येकवाक्यत्वाभावादखरसः सूचितः। तत्संयुतीति । तेषामुक्तकान्ताद्यालम्बनादिविभावादीनां संयुतिः संयोगस्तेन व्यक्तः पूर्व संस्कारात्मना मनसि स्थितोऽप्युक्तसामग्र्या प्रकटीभूतः यः स्थायी रत्यादिः स्थायीभावः स एवोपाधिः स्फटिकस्येव सन्निहितकुङ्कुमं स्वधर्मारोपको यस्याः सा तथा एतादृशी चिदेव सच्चिदानन्दा द्वैतात्मसंविदेव सः रसो भवतीत्यर्थः । तस्माद्विभावादिसामय्या तात्कालिकापसरितानन्दावरणचिद्वेद्यस्थायिभावलं रसत्वमिति प्राचां मते विभावादिसंयोगाभिव्यक्तस्थाय्युपहितचित्त्वं तत्त्वमिति नवीनानां मतेऽपि च तल्लक्षणमस्तीत्याशयः । अत्र प्रथमे लक्षणविभावादिसामग्र्येति सुबोधार्थमेव सर्वदा रसोत्पत्त्यापत्तिवारणाय तात्कालिकेति । चिद्वेद्यस्थायिभावत्वमित्येवोक्तौ तत्र सुखाभावापत्तेः सुखहेतुत्वेन प्रसिद्धे तत्राव्याप्तेः समुदितमुपात्तम् । एवं द्वितीयेऽपि चित्त्वमित्युपहितचित्त्वमिति चोक्तौ ब्रह्मणिजीवादौ चातिव्याप्तिरिति विशेषणम् । तथाचोक्तं रसगङ्गाधरे । इत्थं चाभिनवगुप्तमंमटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिस्थायिभावो रस इति स्थितम् । वस्तुतस्तु वक्ष्यमाणरतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रस इति । नचात्र प्राचीनसंमतलक्षणे चिद्विशिष्टत्वमुक्तं नतु चिद्यत्वं त्वया तु तथोक्तमिति कथं न विरुद्धमिति वाच्यम् । चिद्वेद्यत्वस्यैव चिद्विशिष्टत्वादन्यथा नीलादेरिव चितो जडत्वापत्तेश्च । तस्मादेवं जातीयकं तदाशयमेव स्फुटयता मयात्र चियुक्त इति वक्तव्ये चिद्वेद्य इत्येव प्रथमलक्षण उक्तम् । आनन्दस्तु चरमलक्षणे चित्वादेवेति किं विरुद्धमिति दिक् ॥ १४॥ नन्वस्त्वेवं मतद्वयं तथापि कः पक्षः श्रेयानित्याशङ्कय श्रुत्यनुसारित्वादन्त्य एवेत्याह - रसो वै स इति । वै निश्चयेन सः 'यद्वै तत्सुकृतम्' इत्यन्तेन ग्रन्थेन ब्रह्मवयुपनिषदि यः पूर्व प्रकृतः परमात्मा स तावद्रसः रसयति स्वस्वरूपानन्देन सुखयति जनानिति तथेत्यर्थः । अतएव 'रसमिति रसं ह्येवायं लब्ध्वानन्दी भवति' इति तैत्तिरीयारण्यकब्रह्मवहयुपनिषच्छ्रुतेरत्र चरम एव पक्षः परम इति संबन्धः । अयं जीवः । रसं ब्रह्मानन्दं लब्ध्वा निरस्तकामत्वेनान्तर्मुखे मनसि स्पष्टप्रतिबिम्बितत्वेन प्राप्येत्यर्थः । आनन्दी सुखी भवतीत्यर्थः । अत्र निरुक्तपक्षद्वये । परमः श्रेयानित्यर्थः । न केवलमन्तिमपक्षाङ्गीकारे श्रुत्येकवाक्यत्वमात्रलाभः किंत्वन्यदप्यस्तीत्यभिप्रायेण तं विशिनष्टि - परमेति । परा ब्रह्मविद्यारूपा मा लक्ष्मीयेषां ब्रह्मविदां तेषामास्पदं तदभिमताद्वैतैकपर्यवसायित्वेन प्रियत्वान्निवासस्थानमित्यर्थः । तस्मादन्तिमपक्षे श्रुत्यनुग्रहस्तत्त्वज्ञानं च संपद्यत इति स एवोपादेय इत्याशयः । नचोक्तश्रुतिः सुकृतशब्दितपुण्यकर्मपरैवास्त्वित्यपि शङ्कयम् । पूर्वाचार्यैरेवमव्याख्यातत्वात्प्रत्युत मदुक्तार्थस्यैव तैः सूचितत्वाच्च । तथा चाहुरनु