SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १३० छंदोनुशासन शान्तकलौघेभ्यस्त्रिभिरतुरुयैस्तुत्यातुल्यैः तुरुयैर्वार्द्ध पादा यत्र भवन्ति सा विदग्धगोष्ठी गरिष्ठा षट्पदी ध्रुवा । षटपदीषु चाद्यस्य पादस्य द्वितीयेन तृतीयस्य षष्ठेन चतुर्थस्य पञ्चमेनानुप्रासः कर्तव्यः । चतुष्पदीष्वाद्यस्य द्वितीयेन तृतीयस्य चतुर्थेन । अन्तरसमासु सङ्कीर्णासु च प्रायेण द्वितीयस्य चतुर्थेनानुप्रासः कार्यः । तत्र षट्पदीभेदानाह । १५ तृतीयषष्ठयो. दशादिसप्तदशान्ताः कलाः शेषेषु, सप्त षट्पदी, षट्पदजातिरष्टधा । तृतीयषष्ठयोः पादयोः दशादयो मात्रा एकैकवृद्धया यावत् सप्तदश । अन्येषु चतुर्पु पादेषु सप्तैव यत्र भवन्ति, सा षट्पदजाति म षट्पदी भवति । सा च दशादीनां सप्तदशान्तानामष्टविधत्वादष्टधा । तत्राद्या यथा “ इअ नारिहिं रससारिहिं, मुहपरिमललुद्धओ। दुरु ढोल्लइ, नहु मेल्लइ, छप्पयगणु मुद्धओ" ? एवं शेषभेदेपूदाहार्यम् । १६ ०अष्टौ उपजातिः । तृतीयषष्ठयोः पादयोर्दशादिसप्तदशान्ताः कलाः शेषेष्वष्टौ चेत्तदोपजातिर्नाम षट्पदी । पूर्ववदष्टधा । तत्राद्या यथा “इअ उवजाइहिं, सुरहिअवाइहिं, गुंजिरघण छप्पउ उववणसारओ, केअइफारओ, कसु नवि रइ अप्पओ" २ एवं शेषभेदेषूदहार्यम् । १७ ०नवावजातिः तृतीयषष्ठयोः पादयोर्दशादि सप्तदशान्ताः कलाः शेषेषु नव चेत्तदाऽवजाति म षपदी। पूर्ववदष्टधा। तत्राद्या यथा “इअ वणराइहिं, अहिणवजाइहिं, छप्पओ परिभमइमालइरत्तओ, महुरसे भत्तओ, जलयागमसमइ” ३ एवं शेषभेदेषूदाहार्यम् । एवं षटपदजात्युपजात्यवजातीनां प्रत्येकमष्टविधत्वाच्चतुर्विंशतिधा षटपदी । १८ ० चतुष्पदी वस्तुकं वान्तरसमार्द्धसमा संकीर्णा सर्वसमा च ॥ वस्तुकमिति चतुष्पद्या एव नामान्तरं, तुरुयसमपादा तुरुयविषमपादा च अन्तरेण व्यवधानेन समान्तरसमा । तुल्यप्रथमद्वितीयपादा तुल्यतृतीयचतुर्थपादा चार्धं सममस्या अर्द्धसमा । व्यामिश्रा सक्कीर्णा । तुल्यचतुष्पदा सर्वसभा । तत्रान्तरसमाः प्राह । १९०चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः चम्मककुसुम सामुद्रक
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy