SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ छदोनुशासन १२७ द्विमात्रश्चैकः मतान्तरे चगण त्रयं वा यत्र तद्यशाधवलम् । यथा “जे तुह पिच्छहि वयणकमल, ससहरमंडलनिम्मलु, जेविहु पालहिं भिच्चकम्मु, थुणहिं जि निरुवमु विक्कमु ॥ जेविहु सासणु धरहिं, पायकमलं जे पणमहिं, ता हंत लच्छी विमुह पहु जसधवलिधदिसिमुह ।।" ३५ ०षडहावाद्ये तुर्य पादौ द्वितीये पश्चमे चौ शेषे पाभ्यां चःपो वा कीर्तिधवलम् । तत्र पडही धवले प्रथमे चतुर्थे च पादे द्वो षण्मात्रावेको द्विमात्रो, द्वितीये पञ्चमे च पादे द्वौ चतुर्मात्री, शेषे तृतीये षष्ठेच षगणद्वयात्परश्चतुर्मात्रः पंचमात्रो वा चेत्तदा कीर्तिधवलम् यथा “ उक्करडा खलचउगज्जउ, चिरु जुज्झुमणु, उन्नामउ सिरु कसरु म लज्जओ, थक्क महब्भर तुहु कट्टहिं । अन्नन्न तिहुअणि कित्ति धवल विसाओ तुह बट्टइ ।। " ३६ ०चतुरंहावोजे पश्चौ समे पचचाद्दस्तो वा गुणधवलम् । तत्र चतुरंहौ धवले विषमपादयोरेकः षण्मात्रौ, द्वौ चतुर्मात्रौ समयोः षचचेभ्यः परो द्विमात्रस्त्रिमात्रो वा चेत्तदा गुणधवलं यथा “ कद्दमभग्गा मग्गुलया, वहुपिहुला दुत्तरजलुलया । तिम्व भरु बहसु गुणधवलया, जिम्व केम्वइ न हसन्ति पिसुणया ।" ३७ ०षचताः षचौ भ्रमरः । ओजपादयोः षण्मात्रचतुर्मात्रत्रिमात्राः समयोः षण्मात्रचतुर्मात्रौ चेत्तदा भ्रमरो धवलम् यथा “कित्ति तहारी वण्णविणु कइ अन्नुन (न) वणहिं । मालइ माणिवि किं भमर धत्तुरइ लग्गहिं ॥" ३८ ०षचताः षचचा अमरम् । ओजे षण्मात्रचतुर्मात्रत्रिमात्राः समे षण्मात्र एकश्चतुर्मात्रौ द्वौ चेत्तदाऽमरं धवलम् । यथा “इंदहु तुहुं गुणि अहियउ, सग्गुवि पहु मइं वाहिअउ । अमरविलासिणि गीअऐ, तुह पर कित्ति निसामिअए ।।” ३९ आद्ययोः पची अन्त्ययोश्रुः सर्वत्रान्ते तो दो वा मङ्गलम् । आद्ययोः प्रथम द्वितीययोः पादयोः प्रत्येकं षगणश्चगणत्रयं च, अन्त्ययोस्तृतीयचतुर्थयोः प्रत्येकं चगणपञ्चकं सर्वपादेषु चान्ते त्रिमात्रो द्विमात्रो वा चेत्तदा मङ्गलार्थसंबद्धत्वात् मङ्गलम् यथा “तुह असिलट्ठिहिं नरवइ मङ्गलकारणि, विस्थारिअ निम्मलयर
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy