SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन वतिः शतानि । जघनचपलायामप्येतावन्त एव । तत्र पथ्यागीतिर्यथा “ विरचितकुसुमाभरणा तन्वाना गीतिमलिकुलनिनादैः । अभ्यागच्छति चैत्रे वासकसज्जेव संप्रति वनश्रीः ॥” १ महाविपुलागीतिर्यथा “ मत्तद्विरेफ पुस्कोकिल वैतालिक महाविपुलगीत्या। क्रियते निर्भरमुन्निद्र एष यूनां मनःसु मनसिशयः ॥” २ पथ्यामहाचपलागीतिर्यथा “ यावल्लुनामि चूताङ्कुरान्पुरोऽस्या मधुं व्यपहोतुम् । तावद्बभूव गीतिः पिकाङ्गनानां प्रमोदचपलानाम् ।।” ३ महाविपुलामहाचपलागीतिर्यथा “कष्टाञ्जनस्त्वदालोकनादपि क्षणमिमां दशां लभते । विपुलां तनोषि दीर्घाक्षि गीतिमेतां कुतो महाचपले ॥” ४ एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् । ७ ०परार्द्धमुपगीतिः ॥ द्विः परार्द्ध लक्षणं यत्र भवति सार्योपगीति इयमपि पूर्ववत्षोडशभेदाः । तत्र पथ्योपगीतौ पूर्वार्द्ध चतुःषष्टिशतानि विकल्पाः । अपरार्द्धपि तावन्तः । अन्योन्यताउनायां चतस्रः कोट्यो नव लक्षाः षष्टिः सहस्राणि । विपुलोपगीतावपि तावन्त एव । महाचपलोपगीतो पूर्वार्द्ध षोडश । अपरार्द्धपि तावन्तः अन्योन्यताडनायां षट्पञ्चाशदधिके द्वे शते । मुखचपलोपगीतौ पूर्वार्द्ध षोडश विकल्पाः । अपरार्द्ध चतुःषष्टिः शतानी । अन्योन्यताडनायां लक्षमेकं चतुर्विशतिः शतानि । जघनचपल्लोपगीतावपि तावन्त एव । तत्र पथ्थोपगीतिर्यथा “ उपगीति कुरङ्गशिशो मा गाः श्रुतिसुखलवस्पृहया व्याधं किमिति न पश्यसि चापन्यस्तेषुमिह पुरतः श्यः ।।" १ महाविपुलोपगीतिर्यथा “ संप्रति शिलीमुखाः पश्य महाविपुलोपगीतिरवैः । सौखप्रसुप्तिकाः पङ्कजिनीः प्रीत्योपतिष्ठन्ते ।।" २ पथ्यामहाचपलोपगीतिर्यथा “ उपगीतिगन्धरूपादि याति चेतो महाचपलम् । तेभ्यो निवर्तयैतत्समीहसे चेत्परां सिद्धिम् ” ३ महाविपुलामहाचपलोपगीतिर्यथा । " चूताकुराः स्मरास्त्राणि चापलात्कोलिलैबढाः । विपुलोपगीतयोऽस्त्राणि तेनिरे ते न तैस्तस्य ॥” ४ एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् । ८ ०द्वयोर्व्यत्यये उद्गीतिः ॥ आर्यायाः द्वयोः पूर्वार्द्ध पराढ़ें
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy