________________
छंदोनुशासन तदेहि सोत्सवं, हंसिके ॥” ३० ० स्लगा सिल्गा इला ॥ ओजे सलगाः । युजि सत्रयं लघुगुरू च । यथा “ करटिस्रवन्मदपक्किलधूलिचितालिताम् । रणितच्छलात्तव गायति नूनमिला वलम् ' ३१ स्लगाःसृमंगाकमुखी॥ ओजे सलगाः युजि सगणाष्टकम् । यथा “ विरहे नवे, भवतः सुभगोद्धतवाष्पतुषारकणप्रकरो ग्लपयत्यनिशम् । कुमुदस्मितामरविन्दकरां विकचोत्पलचारुदृशं परिपूर्णमृगाङ्कमुखीम् ।।” ३२ ०न्ललगा न्लृगौ शिखा ।।
ओजे नगणनवकं लघुगुरू च । युचि नगणदशकं गुरुश्च । यथा " प्रसृमरमरिनरपतिबलतिमिरनिकरमतनुमपि गुरुगिरिगुहातरुगहनविकटकुहरशरणमिममखिलमिह समरसमयदिनमुखे । परममहिमनि शशधरकुलगगनदिनकरपरपटिमजुषः किरणततय इव विदधति चिरतरमवनिपतितिलक तव वरविशिखाः॥"३३व्यत्यये खञ्जा। ओजयुक्पादयोर्व्यत्यये शिखैव खञ्जा। तत्रौजयोस्त्रिंशल्लघवो गुरुश्च । युक्पादयोरष्टाविंशतिलघवो गुरुश्च । यथा " प्रमुदितसमदपरभृतकलरणितमविकलशशधरकिरणविततयो, विकसितसरसिरुहविपिनमलिकुलविरुतमुखरितकुसुमितलताः । कुरुबकवकुलविचकिललसदविरलपरिमलसुरभिमलयपवनो, विरहविधुरयुवतिहृदयतपनमिदमखिलमपि नवमधुसमये ।।" खञ्जतिशब्दस्य छन्दसि प्रवेशयितुमशक्यत्वान्नाम नोक्तम् । शिखाखञ्जयोः प्रकारान्तरमाह । ३४ अर्द्धयोर्वा ।। न्ललगा न्लगौ चेत्योजयुक्पादयोर्यच्छिखाया लक्षणमुक्तं तत्पूर्वापरार्द्धयोश्चेद्भवति तदापि शिखा । एवं पूर्वापरार्द्धयोर्व्यत्यये खजापि अर्द्धयोरित्यभिधानादोजयुजोरिति निवृत्तम् । तत्र शिखा यथा “सुभग तव नवविरह इह महति विलसति चकितहरिणशिशुशः । अमृतरुचिरुचिरजनि विषममलकमलदलततिरपि दवदहनशिखा ॥" ३५ खञ्जा यथा “ अभिनवविकसितकुरुबकविचकिलबकुलपरिमलमधुसमये । त्वमिह कथमिव पथिक हतक गतकरुण परिहरसि निजमृगदृशम् ” अनयोर्विषमवृत्तत्वेऽप्यर्द्धसममध्ये लाघवार्थ पाठः ३६ ०न्लगावतिरुचिरा द्वयोः ॥ अर्द्धयोर्नगणनवकं गुरुश्च ।