SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सम्प्रति तु अनतिहृदयङ्गमापीयं हलायुधवृत्तिरेवाद्वियते सर्वत्र । हलायुधश्च शालिवाहनस्य पञ्चदश्यां शताब्दयामुत्पन्न इति केचिद्वर्णयन्ति । हलायुधस्य कालः तथा ह्यस्ति हलायुधेनैव प्रणीतं कविरहस्याभिधं किमपि काव्यम् । तत्र च स्वोपजीव्यः कृष्णराज उपवर्णितोऽनेन । स च विजयनगराधीश्वर एव । यतः १४३० शकाब्दे तद्दत्तग्रामप्रशस्तौ 'नमस्तुङ्गशिरः-' इति श्लोक उपलभ्यते । स च छन्दः शास्त्रवृत्तिगत इति । ८ तदेतन युक्तम्, 'नमस्तुङ्गशिर' इतिश्लोकस्य प्राचीनत्वेन तदुल्लेखस्याकिञ्चित्करस्वात् । तथा च १३१३ शकाब्दे प्रजापतिवत्सरे हरिहररायेण गोवापुरे मन्त्रिपदे नियुक्त हरिप्रदत्तदानपत्रेऽपि दृश्यतेऽसौ श्लोकः । उपलभ्यते च ततः प्राचीनतरेण बाणभट्टेन प्रणीते हर्षचरितेऽपि । किञ्च कविरहस्ये समुपवर्णितः कृष्णराजो राष्ट्रकूटकुलोद्भवः । ' तोलयत्यतुलं शक्त्या यो भारं भुवनेश्वरः । कस्तं तुलयति स्थाम्ना राष्ट्रकूटकुलोद्भवम् ॥' इति हि तत्रोपवर्ण्यते । न च विजयनगराधीश्वरः कृष्णराजो राष्ट्रकूटकुलोद्भवः इति प्रसिद्धमेवेतिह्मविदाम् । राष्ट्रकूटेषु तु त्रयः कृष्णाः प्रसिद्धा: - प्रथमः शुभतुङ्गापरनामकः, द्वितीयः अकालवर्षाख्यः, तृतीयोऽप्यकालवर्षसंज्ञकश्चेति । तत्र तृतीय एव हलायुधस्योपजीव्य इति निश्चिनुमः । यतस्तदनन्तरमधिष्टितराज्यः खुडिगदेवोऽपि क्वचित् स्मरणविषयतां नीतोऽ- ' त्वया कृतपरिग्रहे खुडिगवीर ! सिंहासने' ( लि. पा. ७.१७ ) इति, 'यशः शेषीभूते खुडिगनरनाथे गुणनिधौ' ( लि. पा. ७. २० ) इति च । खुडिगदेवश्च तृतीयस्य कृष्णदेवस्य वैमात्रेयो भ्रातेति दानपत्रलेखादवगम्यते । तथाहि - 'ऐन्द्रपदजिगीषयेव स्वर्गमधिरूढे च ज्येष्ठे भ्रातरि श्रीमत्कृष्णराजदेवे युवराजदेवदुहितरि कन्दकदेव्याममोघवर्षनृपाज्जातः खोट्टिगदेवो नृपतिरभूद्भुवनविख्यातः' इति । अयं हि कृष्णराजानन्तरं ८९३ शकाब्दं यावत् महीप - तिपदमलंचकार । कृष्णराजश्च शालिवाहनस्य ४६७-८८८ वत्सरपर्यन्तं भुवं शशासेत्युत्कीर्णलेखादिभिर्ज्ञायते । असावेव कृष्णराजः कविरहस्ये नायकर्ता नीतो हलायुधेन । तत्पश्चाच मालंवेशो वाक्पतिराजापराख्यो मुञ्जराज आश्रितोऽनेन । प्रकृता छन्द:शास्त्रटीका च तदाश्रयेणैव प्रणीता । अत एवास्यां ( ४. १९ । कृष्णराजः खुडिंगदेवश्च मुजः ५. ३४ । ५. ३९ । ७.५ । ८.१२ ) इत्यत्र मुञ्जः सबहुमानमुपश्लोक्यते । तस्य वाक्पतिराज इत्यपरं नामधेयमपि दृश्यते ( ४. १० ) । उपलभ्यते च नूनं राष्ट्रकूटेभ्य आच्छिनं 'वल्लभेश्वर' बिरुद
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy