________________
३
पिङ्गलाचार्यकृतच्छन्दःशास्त्रात्पूर्वमपि शास्त्रेऽस्मिन् कौटुकि - यास्क - ताण्डि - सैतव- काश्यप - रातमाण्डव्यप्रभृतीनां शास्त्राण्यासमिति पिङ्गप्राचीनाद्द्छन्दः- लकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौष्टुकिः - बौधायनीये शास्त्रकाराः । भारद्वाजगोत्रकाण्डे 'भृष्टयो भूष्टुभिन्दयः क्रोष्टुकयः' इति श्रुतानां क्रोष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीनः, यतो यास्केनापि स्मर्यते- 'द्रविणोदा इन्द्र इति क्रौष्टुकिः' ( निरु. ८. २ ) इति ।
यास्क:- आपस्तम्बेन भृगुपु पठित:- ' यास्कबाधूकमौनमौका:' इति । भयं निरुक्ताख्य निघण्टुभाष्यप्रणेता 'यास्को मामृषिरव्यम्रो नैकयज्ञेषु गीतवान् ।' (शां. प. ३४३. ७२ ) इत्यादिना महाभारते ऽपि स्मर्यमाणः ।
ताण्डी - 'ऋषिरासीत्कृते तात ! तण्डिरित्येव विश्रुतः ।' (अनु. १६. १ ) इत्यादिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । 'ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ ! भविष्यति न संशयः ॥ ' ( अनु. १६.७० ) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् ।
trafaresधिकं किमपि न ज्ञायते । केवलं लौकिकच्छन्दोलक्षणविधायकशाकर्तायमासीदित्यनुमीयते ।
काश्यपस्तु - मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणीयते 'तत्र भगवता सूत्रकारेण काश्यपेन...' (पृ. ६ ) इति । कृष्णशर्मणो ध्वमतानुयायित्वात् मध्वाचार्यस्य च १२३९ शकाब्दे पिङ्गलसंवत्सरे लोकान्तप्रयाणस्यैतिह्मविद्भिरवधारितत्वात् तदूर्ध्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्थ काश्यपसूत्रस्यासादनमिदानीमपि नासम्भवनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमुपलभ्यते । तत्कर्ता छन्दः सूत्रप्रणेता च काश्यप एक एवोत भिच इत्यवधारयितुं
-न पारयामः 1
2
रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरदर्पणे भरद्वाजाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनसूत्रे भृगुगणे आश्वलायनसूत्रे तर्पणप्रकरणे ऽन्यत्र च बहुषु ग्रन्थेषु श्रुतः । महाभारते च (आदि. १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्मशास्त्रमपि रात माण्डव्यप्रणीतमस्तीति स्मृतिसारसमुच्चयादिपर्यालोचनां प्रतीयते । तत्र रातमाण्डव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्खलिखितवत्सम्भूयग्रन्थकर्तृत्व निमित्तक एवं स्यात् ।
एतदतिरिक्ता अन्येऽपि छन्दः शास्त्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुमईन्ति, यन्मतमसौ 'एकीयम्' ( ५. १५ ) इति निर्दिशति । परं तद्विषयेऽविदितविशेषा जोषमेवावतिष्ठामः ।