________________
तस्मात् सछन्दस एव कर्तव्या न विछन्दसः' (ऐ.बा.४८) इत्युपसदा सछन्दस्त्वकरण- . मनुज्ञायते। तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणमित्यारम्भणीयश्छन्दोवेदः॥६॥
"गायत्रीं ब्राह्मणस्यानुयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसे गायत्री । तेजसैवैनं तद्ब्रह्मवर्चसेन समर्द्धयति । त्रिष्टुभं राजन्यस्यानुब्रूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति । जगीं वैश्यस्यानुनूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समईयति" (ऐ. ब्रा.५।२) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुमा विन्द्रियं वीर्यमोजः, जगत्या च पश्वादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञानमित्यारम्भणीयश्छन्दोवेदः ॥ ७॥
"चतुरुत्तरै( देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः। अमिर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिव॒हत्या मित्रा वरुणौ पतयेन्द्रस्त्रिष्टुभा विश्वेदेवा जगत्या । ते एते अभ्यनूच्येते-अमेर्गायत्र्यभवत् सयुग्वेति । कल्पते ह वा अस्मै योगक्षेमः। उत्तरोत्तरिणी ह श्रियमश्नुते अश्नुते प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सनि"ति (ऐ.बा. ३७॥२) हि श्रूयते। तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्यमाधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां चतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणीयश्छन्दोवेदः ॥ ८॥ ___ "यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभावा त्रैष्टुभं निरतक्षत । यद्वा जगजगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदेति (ऐ.बा.१२॥१) श्रूयते। तदतश्छन्दःप्रतिष्ठापदं विदित्वामृत त्वमश्नुवीयेत्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥
"तं सप्तभिश्छन्दोभिः प्रातरहयन् । तस्मात् सप्तचतुरुत्तराणि छन्दांसि प्रातरनुवाकेsनूच्यन्ते।" इति हि तैत्तिरीयका आमनन्ति । मैत्रायणीनामध्वरादिविधावप्यानायते। "देवेभ्यः प्रातर्यावभ्योनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतदनुवाच आह"-इति । तथाचैतरेयकेऽपि
"देवेभ्यः प्रातर्यावभ्योहोतरनबहीत्याहाध्वर्युः । एते वाव देवाः प्रातर्यावाणो यदमिरुषा अधिनौ। त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति । आस्य देवाः प्रातर्यावा हवं गच्छन्ति य एवं वेद" (ऐ. बा. १५) सप्तामेवानि छन्दांस्यन्वाइ..."सप्तोषस्यानि छन्दास्यन्वाह...सप्ताश्विनानि छन्दांस्यन्वाह-सप्तधा वै वागवदत् । तावद्वै वागवाणी सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै । तिस्रो देवता अन्वाह । त्रयो वा इमे निशान लोकाः । एषामेव लोकानामभिजिसै (ऐ.बा.८१७)। तदाहुः कथमनूच्यः प्रातरनुका इति । यथाच्छन्दसमनूच्यःप्रातरनुवाकः । प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतिर्यो यजते।" (ऐ.बा.४८) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेणानुवचनं साधीयः संभवतीत्यारम्भणीयश्छन्दोवेदः ॥१०॥