________________
६३.
भावुकानाम् । नन्वेवं तर्हि विषमपादान्ते समपादान्तेऽपि वा यथाविवशं कचित् सन्धिकार्याणि, प्रवर्तेरन्, क्वचिद्वा निवर्तेरनित्यव्यवस्थया वैषम्यं स्यादिति चेत्,-न। द्विविधा संहिता भवति-प्राकृता संस्कृता ब । या खाछन्येन प्रकृतिमनुवर्तमाना खारसिकी, सा प्राकृता खतत्रा चाख्यायते । यथा दध्यानयेत्यत्रेकाराकारयोः। या तु स्थलविशेषे वाचनिकी, सा संस्कृता प्रगृह्या चाख्यायते । सा हि नियमेन प्रगृहीतत्वादेव न कस्यचिद्विवक्षयाऽन्यथा भवति । यथा विषमपादान्ते संहिता। सा हि यद्यपि कश्चिद्विलम्बेन वर्णानुच्चारयेत् , अथापि न निवर्तते प्रगृह्यत्वात् । यथा रामेष्पित्यत्र षुभागं तदितरभागात् पृथक्कृत्य यदि विलम्बेनापि कश्चिदुचारयेद्, अथापि सा पदप्रकृतिः संहिता न निवर्ततें प्रगृह्यत्वात् । इयं समपादान्ते नाभ्युपगम्यते, तस्माददोषः।
अन्येऽपि वदन्ति-भिद्यते हीयं संहिता वर्णाक्षरपदपादपद्यादिषु प्रत्यर्थ प्रत्ययं रूपभेदेन । वर्णसंहिता हि बलतारतम्येन वर्णगुणादिकं परवर्णे संचारयति। अक्षरसंहिता. तु किञ्चिद्वर्ण किञ्चिदक्षराङ्गत्वेनावकल्पयति । तथा पदसंहिता वर्णानन्योन्यं संनिधापयति । अखण्डपदसंहितानिवृत्तिस्त्ववाहशब्देनोच्यते । उकाश्चैते संहिताविशेषधर्मा वर्णसमीक्षायां संहितोपनिषत्प्रकरणे। तत्रेयं पदसंहिता वर्णानां विलम्बेनोच्चारणं तु सहते, सन्धिकार्यप्रतिपत्तौ तु वर्णसंहिता तत्रम् । नैषात्यन्तं वर्णसान्निध्यम पेक्षते; राघवेणेत्यादौ षण्मात्राविलम्बेऽपि रेफसंहितानिबन्धनणत्वकार्यदर्शनात् । तथा चेयं सन्धिकार्यप्रयोजिका संहिता यावन्तं कालं सहते, तावत्कालानतिपातेनैव विषमपादान्ते विश्रामः कर्तव्य इत्यादिश्यते। अधिकं तु ततः समपादान्ते इत्यतो न तत्र सन्धिकार्याणि प्रवर्तन्ते। परे वाहुः अतिविलम्बेनोचारणेऽपि विषमपादान्ते सन्धिकार्याणि भवन्ति । अनतिविलम्बेनोच्चारणेऽपि समपादान्ते न भवन्ति । राघवेणेत्यादौ षण्मात्राविलम्बेऽपि सन्धिरनुवर्तते पुनर्नतु रघुनाथादावतिसांनिध्येऽपि निवर्तते । तस्मातदुक्तं युक्तम् । वस्तुतस्तु- '..
संहितैकपदे नित्या नित्या धातूपसर्गयोः। .
नित्या समासे वाक्ये तु सा विक्सामपेक्षते ॥१॥ इति यथा वैयाकरणा धातूपसर्गादौ नित्यत्वं वाचनिकं फलबलादनुजानन्ति; तथैव खलु विषमपादान्ते संहिताया नित्यत्वं, समपादान्ते तु संहिताया अविवक्षितत्वं फलानुरोधादेव छान्दसिका अनुजानन्ति । तस्माच्छान्दसिकसमयसिद्ध एवायम इत्यलमतिचिन्तया ॥
इंति छन्दःपदसंहितावादः
यतिदोषवादः। ननु विभक्तिकृतानां पदानां विभकेः प्राक् क्रियमाणाया यतेर्दुष्टत्वमन्याख्यायते तनावकल्पते, दुष्टत्वहेन्वलाभात् । तत्तच्छन्दोवृत्ते नियतस्थानेष्वेव ह यतिमन्वाचक्षते