SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अथ पादश्छन्दसां द्विविधो भवति । विरतिसिद्धो विभागसिद्धच । आद्यो न्यूनाधिकाक्षरत्वेऽपि दृश्यते । परस्तु चतुर्थाशात्मकः । तत्र चतुर्विशत्यक्षरनियताया गायत्र्या विभागजैकपादानावााः , तादृशपादद्वयहानी साम्याः, पादत्रयहानी याजुष्याः, पादद्वयाधिक्ये तु ब्राहयाः, व्यवस्थापनात्तासामप्याषींविकृतिरूपत्वावसायात् । तस्मान्यूनाधिकाक्षरत्वसंभवेऽपि सिद्धं चतुर्विशत्यवयवघटित्वं गायत्रीसामान्यलक्षणम् । एतेनोष्णिगादयोऽपि व्याख्याता इति दिक् ॥ इति छन्दोलक्षणवादः। अथ समासवादः। अथ विप्रतिपत्तिः–एके तावत्-प्रस्तारसिद्धे खरूपे चत्वारो भागा भवन्ति, प्रतिभागं वा यत्र तत्र यतिव्यवस्थाप्यनुवर्तते गतिसापेक्षेतीच्छन्ति । १। अन्ये तु-प्रस्तारशुद्धेषु खरूपेषु गतिसम्पन्नानां केषांचित्सजातीयचतुर्ग्रहः समवृत्तं भवति । सजातीयद्विसमुच्चयोऽर्धसमं भवति । अथैकमेव प्रस्तारसिद्धं स्वरूपं चतुर्भागावकल्पनया चतुष्पाद् भवतीति तद्विषमं वृत्तमितीत्थं समासासमासाभ्यां छन्दोभेदाः प्रकल्पन्त इतीच्छन्ति । २।। परे पुनः-सजातीयचतुर्दूहः समवृत्तं विजातीयचतुर्ग्रहो विषमवृत्तमथ विजातीयद्विसमुच्चयो द्विः प्रयुक्तोऽर्धसमवृत्तं स्यादिति सर्वत्र समासेनैव छन्दःसिद्धिमिच्छन्ति । ३।। अपरे तु न खलु पादव्यवस्था छन्दःसिद्धौ तन्त्रं, किं तर्हि सिद्ध छन्दसि यथेच्छं . पादाः प्रकल्प्यन्ते । तत्र चतुर्थांशस्य पादत्वमिति लोकप्रसिद्धिमनुरुन्धानाः केवलं सर्वेष्वेव श्लोकेषु चतुरश्चतुर एवं पादान् प्रकल्प्य तत्तल्लक्षणानुरोधेन समाईसमविषमवृत्तत्वं व्यवस्थापयन्ति । ४। अत एव श्लोकनिष्टांश्चतुरोऽवष्टम्भानेवोपसमाधाय तदितरांस्तथैवानुभूयमानानपि पादव्यवस्थाप्रयोजकत्वेन नापेक्षन्ते । सोऽयमेषां केषांविच्छान्दसिकानां सामयिकोऽर्थः स्यात् । वस्तुतस्तु संस्कृते पैङ्गले द्विदलतया सिद्धष्वप्यार्यादिमात्रावृत्तेषु यथैव द्वादशमात्रासु ततोऽष्टादशमात्रासु ततः पुनरेव द्वादशमात्रामु ततः खलु पञ्चदशमात्रामु यथेच्छं चतुरः पदान् प्रकल्प्य चतुःपदीत्वमार्याया व्यवस्थापितं प्राकृते पङ्गले । यथा वा द्विदलायामपि दोधायामवष्टम्भानुरोधेन त्रयोदशैकादशमात्रयोः पादत्वं प्रकल्प्य चतुष्पदीत्वमिच्छन्ति, तथैव शार्दूलविक्रीडितादीनामष्टपदीत्वं स्रग्धरादीनां द्वादशपदीत्वं त्रिभङ्ग्यादीनां पोडशपदीत्वमित्येवमवष्टम्भानुरोधेन यथायथं पादव्यवस्था द्रष्टय । न खलु चतुर्थांशः पाद इति युज्यते वक्तुं छन्दोवेदे। वर्णमात्रयोन्यूनातिरेकेऽपि तद्व्यवहारदर्शनात् । कि तर्हि पदमिति ? विश्रामः पदं भवति, पदात्तु प्रतिपन्नः श्लोअखण्डः पाद इति वक्तव्यम् । अत एवैतेषु विश्रामपदेषु कस्यचिंदकस्य गातेस्थामाव्यादितरविश्रामपदापेक्षयाधिकमात्रत्वेनानुभवात् , तत्र सन्ध्यादिविध्यवरोपाका
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy