SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ एक केवलसामान्यभावो भातिसिद्धस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भातिसिद्धा एव । जात्याकृतिव्यकिसमवायात्मकानां घटपटादिपदार्थानां सत्तासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेषभेदाश्च भातिसिद्धा एव संभवन्ति । एतदभिप्रेत्यैव सूत्रयति-'सामान्यं विशेष इति बुद्ध्यपेक्षम्' (वै. द. १।२।३) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात्-विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवर्त्य तदवच्छेदमाहात्म्यादेव सर्व जगदुद्भावयति ॥ तथा चैत एवावच्छेदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां खखच्छन्दांसि भवन्ति । खखच्छन्दःसंपत्त्यैव च तदर्थस्वरूपसंपत्तिदृश्यते । यदि हि गोखरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः खरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः खरूपादप्रच्यवो भवति । तदिदमेवास्य छन्दसः स्वरूपाच्छादकत्वं खरूपरक्षकत्वं च वेदे महर्षयः समामनन्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते। अत एवाक्षरव्यूहश्छन्द इति पर्यायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिर्वाहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्सरस्य गायत्रीत्वे पक्षाश्चतुर्विंशतिरक्षराणीत्येवमनेकत्र शतपथादिब्राह्मणेषु अपश्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, पदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इत्येवमेषां सर्वेषामेव छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच्छिनत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानौपयिकतया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छान्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेकमात्रिकखद्विमात्रिकत्वाभ्यामक्षरमपि द्वेषैव भवति । तथा च मात्रानियताक्षरव्यूह एव, च्छन्दोऽवच्छेद एव वा छन्द इति संसिद्धम् ॥ इति च्छन्दोविभकिवादः। अथ वैदिकान्यत्ववाद:ननु-वैदिकलौकिकभेदाच्छन्दसा द्वैविध्यमुपदिशयन्ति । तत्र न ज्ञायते किनिमित्तोऽयमतिरेकः ? इति। वेदे तावत् सप्त छन्दांसि सप्तातिच्छन्दांसि सप्त तिच्छन्दांति चोपदिश्यन्ते, तान्येव पुनलौकिका अप्युपजीवन्ति । यपि प्राकृतपिालोचविषयाः .मात्राच्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषा लौकिकत्वम्। भवापि वेदोपविधन लोकेऽप्यनुवर्तनालोकातिरेकेण वैदिकं न पश्यामः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy