SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ व्यपदिश्यन्ते । अय मात्राछन्दसां गायत्र्यादीनामेकैकेऽवान्तरविशेषा वृत्तच्छन्दांसि । तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते। यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणादिजातयः, ब्राह्मणादिविभाजिकास्तु तत्तद्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमायूह्यमिति याशिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभज्य व्याचक्षते।.. (१) तत्र पद्यजातं देधा-वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दःसिद्धिस्तदृत्तम् । यत्र तु नियतमात्राव्यवस्थया छन्दःसिद्धिः सा जातिः। तथा चाह नारायणः 'पद्यं चतुष्पदी तच वृत्तं जातिरिति द्विधा। वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥' हलायुधोऽप्याह 'पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । . एकदेशस्थिता जातितं लघुगुरुस्थितम् ॥' (२) परे तु वृत्तिर्जातिरिति द्वेषा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दःशब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् । (३) छन्दःपरिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय-'मात्राक्षरसंख्स नियता वाक् छन्दः, गलसमवेतखरूपेण नियता वाग् वृत्तम् । इत्येवं व्यवस्थ पति ! तथा च तन्मते 'उकात्युका तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका। गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्कित्रिष्टुभः॥ जगती चातिजगती शक्करी चातिशक्करी। अष्टचत्यही धृतिः सातिः कृतिः प्रकृतिराकृतिः ॥ विकृतिः संकृतिश्चातिकृतिरुत्कृतिदण्डकाः। एतानि वर्णच्छन्दांसि तद्भेदानां तु वृत्तता ॥ एवमेव गढादीनां मात्राच्छन्दस्त्वमिष्यते। तदवान्तरभेदानां जातित्वमिति सिद्ध्यति ॥' (४) अपरे तु पुनरन्यथा विभज्य व्याचक्षते। तथा हि-पद्यच्छन्दस्तावत्रेधावैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनस्नेधा-गणच्छन्दः, मात्रा. च्छन्दः, अक्षरछन्दश्चेति । तथा चोकम् 'आदो तावद्गणच्छन्दो मात्राच्छन्दस्वतः परम् । तृतीयमक्षरच्छन्दश्छन्दोघा तु लौकिकम् ॥ आर्याधुगीतिपर्यन्तं गणच्छन्दः समीरितम् । मात्राच्छन्दधूलिकान्तमौपच्छन्दसिकादिकम् ।। समान्याद्युत्कृतिं यावदक्षरच्छन्द एव च ॥' इति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy