________________
माध्रुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिल्लोके प्रत्यतिष्ठन् । तस्मादेतां वृहतीत्याचक्षते।"
इसैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्पैकपदा-विराजोऽक्षरत्वमाख्यायते । विराजोऽपि भूयस्यः क्लप्तयो भवन्ति । तैत्तिरीयके तावत्
“नव प्रयाजा इज्यन्ते नवानुयाजाः, अयै हवींषि, द्वावाधारी, द्वावाज्यभागौ। त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् ।"
इत्येवं प्रयाजादीनामक्षरत्वमाह। मैत्रायणीयकेऽप्येवम्'प्राणेभ्यो वै ताः प्रजाः प्राजायन्त। प्राणा वा एतानि नव हवींषि । नव हि । प्राणाः। आत्मा देवता। ततः प्रजायते। नव प्रयाजाः, नवानुयाजाः, द्वावाज्यभागो, अयै हवींषि, अनये समवद्यति। वाजिनो यजति । तत्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति। विराजो वै योनेः प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते। त्रिंशत् । त्रिंशद्वै रात्रयो मासः। यो मासः स संवत्सरः। संवत्सरः प्रजापतिः। तत्प्रजापतेश्च वा एतद्विराजश्च योनेमिथुनाद् यजमानः प्रजायते'इति प्रयाजादीनामिव त्रिंशदात्रीणं विराडक्षरत्वमुच्यते। अथ माध्यन्दिनीयके'शूर्प चामिहोत्रहवीं च, स्पयं च कपालानि च, शम्यां च कृष्णाजिनं च, उलुखलमुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः।
इति शूर्पादीनामक्षरत्वमुक्तम् । ऐतरेयके चयदु गायत्री च, पतिश्च ते द्वे अनुष्टुभो। यदुष्णिक् च, बृहती च-ते द्वे अनुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ। यदु द्विपदा च षोडशाक्षरा, जगती च ते द्वे अनुष्टुभौ ॥'
इत्येवं कृत्वा द्वयोयोरनुष्टपत्वम् , तथा अनुष्टुप्पछ्योरणित्रिष्टुभोर्गायत्रीजगयोश्च बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोदयाक्षरत्वमाख्यायते । तदेतदेवमन्यत्रान्यत्र भूयसा तत्तच्छन्दःखरूपनिर्वचनपरतत्तच्छतवचनपरिशीलनया चत्वा- . रोऽर्था निष्कृष्य सिध्यन्ति
(१) छन्दःखरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यापि व्यजातस्य गुणजातस्य वा छन्दःपरिभाषायामक्षरसंज्ञा-इत्येकः ॥
(२) क-तादृशैश्चाक्षराख्यैव्यगुणैश्चतुर्विशतिसंख्यापूरणे च सा मर्यादा गायत्री, अप्राविंशतिसंख्यापूरणे च सा मर्यादा उणिमित्येवं चतुरुत्तराणि तानि तानि छन्दांसि वेदितव्यानि । उत्तरोचरमेकैकाक्षरवर्षितपादत्वात् ॥